ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥
नाडीरश्मिसमन्वितेन अर्चिरादिपर्वणा देवयानेन पथा ये ब्रह्मलोकं शास्त्रोक्तविशेषणं गच्छन्तियस्मिन्नरश्च वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि, यस्मिन्नैरं मदीयं सरः, यस्मिन्नश्वत्थः सोमसवनः, यस्मिन्नपराजिता पूर्ब्रह्मणः, यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म, यश्चानेकधा मन्त्रार्थवादादिप्रदेशेषु प्रपञ्च्यतेते तं प्राप्य चन्द्रलोकादिव भुक्तभोगा आवर्तन्तेकुतः ? तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६)(क. उ. २ । ३ । १६) तेषां पुनरावृत्तिः’ (बृ. उ. ६ । २ । १५) एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४ । १५ । ५) ब्रह्मलोकमभिसम्पद्यते’ (छा. उ. ८ । १५ । १) पुनरावर्तते इत्यादिशब्देभ्यःअन्तवत्त्वेऽपि तु ऐश्वर्यस्य यथा अनावृत्तिः तथा वर्णितम्कार्यात्यये तदध्यक्षेण सहातः परम्’ (ब्र. सू. ४ । ३ । १०) इत्यत्रसम्यग्दर्शनविध्वस्ततमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैव अनावृत्तिःतदाश्रयणेनै हि सगुणशरणानामप्यनावृत्तिसिद्धिरितिअनावृत्तिः शब्दादनावृत्तिः शब्दात्इति सूत्राभ्यासः शास्त्रपरिसमाप्तिं द्योतयति ॥ २२ ॥

यत्तु सातिशयत्वेन कार्यत्वं ततश्चान्तवत्त्वमित्यनुमानं तत्र किमैश्वर्यस्यान्तवत्त्वमात्रं साध्यं किंवा मुक्त्यभावो विदुषामिति विकल्प्याद्ये सिद्धसाध्यत्वं मत्वा द्वितीये क्रममुक्तिवादिश्रुतिविरोधमाह -

अनावृत्तिरिति ।

सूत्रस्थं प्रतिज्ञापदं व्याचष्टे -

नाडीति ।

अर्चिरादिपदोक्तदेवयानं पन्थानं स्मारयितुं विशेषणद्वयम् । ये ब्रह्मलोकं गच्छन्ति ते तं प्राप्य भुक्तभोगास्ततो नावर्तन्त इति सम्बन्धः ।

कानि तानि शास्त्रो क्तानि विशेषणानीत्युक्ते यथाशास्त्रं तान्यनुक्रामति -

यस्मिन्निति ।

इतो लोकात्पृथिवीशब्दितात्तृतीयस्यां दिवि यो ब्रह्मलोकस्तस्मिन्नरण्यसंज्ञौ द्वावर्णवावित्यर्थः ।

तस्मिन्नेवान्नमयं हर्षकरं च सरोऽस्तीत्याह -

यस्मिन्नैरमिति ।

सोमसवन इत्यत्र सोमशब्दोऽमृतवचनः । कर्मज्ञानशून्यानां दुष्प्रापत्वमपराजितत्वम् । ब्रह्मणो हिरण्यगर्भस्येति यावत् । प्रभुशब्दोऽपि हिरण्यगर्भमेवाधिकरोति ।

उक्तविशेषणवति ब्रह्मलोके मानमाह -

यश्चेति ।

चन्द्रलोकादिवेति वैधर्म्योदाहरणम् ।

प्रतिज्ञामेवं व्याख्याय मोक्षहेतुमाकाङ्क्षापूर्वकं व्याख्याति -

कुत इत्यादिना ।

ननु दर्शितानामनावृत्तिश्रुतीनामर्थवादत्वादविरोधे प्रामाण्यमिति नानुमानापबाधने सामर्थ्यमिममिहेति च विशेषणात्कल्पान्तरे भवत्यावृत्तिरिति, तत्राह -

अन्तवत्त्वेऽपीति ।

ये तावदूर्ध्वरेतसः स्वाश्रमधर्ममात्रनिष्ठा ब्रह्मचर्येण ब्रह्मलोकमधिरूढास्तेषामन्तरेण विद्यां बन्धध्वंसासिद्धेरस्त्येवावृत्तिः । ये तु सगुणोपासकास्तेषामैश्वर्यस्य कल्पमात्रस्थायित्वेऽपि क्रममुक्तिविवक्षयाऽनावृत्तिरविरुद्धेत्यर्थः ।

सगुणब्रह्मविदामेवानावृत्तिरत्र प्रतिपाद्यते न निर्गुणब्रह्मविदां तत्र को हेतुरित्याशङ्क्य तेषामावृत्तिशङ्काभावादित्याह -

सम्यगिति ।

सगुणब्रह्मविदामपि ब्रह्मलोकगतानां तत्रोत्पन्नसम्यग्दर्शनप्रसादादेव मुक्तिरिति स्थिते सम्यग्दर्शिनामनावृत्तिः सुतरां सिध्यतीति कैमुतिकन्यायमाह -

तदाश्रयणेनेति ।

उपासकानामीश्वरायत्तमैश्वर्यं न निरतिशयमित्यधिकरणार्थमुपसंहर्तुमितीत्युक्तम् । सूत्राभ्यासस्य प्रयोजनमाह -

अनावृत्तिः शब्दादिति ।

यत्राध्यायपरिसमाप्तिरेव तत्र पदस्यैवाभ्यासो दृष्टः प्रकृते सूत्रस्यैवाभ्यासाच्चतुर्लक्षणस्य वेदान्तमीमांसाशास्त्रस्य समन्वयाविरोधसाधनफलानां साकल्येनोक्तत्वाद्वक्तव्यानवशेषात्परिसमापनमुचितमिति भावः ॥ २२ ॥