विदुषां निरङ्कुशैश्वर्याभावे दोषमाशङ्कते -
नन्विति ।
सह परमेश्वरस्यैश्वर्येणातिशयेन वर्तत इति सातिशयं विदुषामैश्वर्यं तथाच परमेश्वराधीनत्वाल्लौकिकैश्वर्यवत्कार्यं कार्यत्वाच्चान्तवदित्यर्थः ।
विद्वदैश्वर्यस्यान्तवत्त्वे का क्षतिरित्याशङ्क्य विदुषां मुक्तता न स्यादित्याह -
ततश्चेति ।
एतदुत्तरत्वेनोत्तरसूत्रं सूत्रकारं पूजयन्नवतारयति -
अत इति ।
भगवानित्यनेन सर्वज्ञत्वादिसम्पत्तिरुक्ता । आचार्यशब्देन शास्त्रार्थबहुलीकरणं सदाचारे शिष्याणां स्थापनं स्वयं तदाचरणं चेत्यत्र नैपुण्यमुक्तमिति भेदः ।