ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
पञ्चपादिका
 
युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् , तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिःइत्यतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयिणस्तद्धर्माणां विषयेऽध्यासो मिथ्येति भवितुं युक्तम्तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येतरेतराविवेकेन अत्यन्तविविक्तयोर्धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्यअहमिदम्’ ‘ममेदम्इति नैसर्गिकोऽयं लोकव्यवहारः
युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् , तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिःइत्यतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयिणस्तद्धर्माणां विषयेऽध्यासो मिथ्येति भवितुं युक्तम्तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येतरेतराविवेकेन अत्यन्तविविक्तयोर्धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्यअहमिदम्’ ‘ममेदम्इति नैसर्गिकोऽयं लोकव्यवहारः

अथ प्रथमं वर्णकम्

अनाद्यानन्दकूटस्थज्ञानानन्तसदात्मने
अभूतद्वैतजालाय साक्षिणे ब्रह्मणे नमः ॥ १ ॥

नमः श्रुतिशिरःपद्मषण्डमार्तण्डमूर्तये ।
बादरायणसंज्ञाय मुनये शमवेश्मने ॥ २ ॥

नमाम्यभोगिपरिवारसम्पदं निरस्तभूतिमनुमार्धविग्रहम् ।
अनुग्रमुन्मृदितकाललाञ्छनं विना विनायकमपूर्वशङ्करम् ॥ ३ ॥

यद्वक्त्र - मानससरःप्रतिलब्धजन्म - भाष्यारविन्दमकरन्दरसं पिबन्ति ।
प्रत्याशमुन्मुखविनीतविनेयभृङ्गाः तान् भाष्यवित्तकगुरून् प्रणमामि मूर्ध्ना ॥ ४ ॥

पदादिवृन्तभारेण गरिमाणं बिभर्ति यत् ।
भाष्यं प्रसन्नगम्भीरं तद्व्याख्यां श्रद्धयाऽऽरभे ॥ ५ ॥

युष्मदस्मत्प्रत्ययगोचरयोःइत्यादिअहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारःइत्यन्तं भाष्यम्अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेइत्यनेन भाष्येण पर्यवस्यत् शास्त्रस्य विषयः प्रयोजनं चार्थात् प्रथमसूत्रेण सूत्रिते इति प्रतिपादयति । एतच्चतस्मात् ब्रह्म जिज्ञासितव्यम्इत्यादिभाष्ये स्पष्टतरं प्रदर्शयिष्यामः

अत्राह यद्येवम् , एतावदेवास्तु भाष्यम्अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेइति ; तत्रअनर्थहेतोः प्रहाणायइति प्रयोजननिर्देशः, ‘आत्मैकत्वविद्याप्रतिपत्तयेइति विषयप्रदर्शनं, किमनेनयुष्मदस्मद्इत्यादिनाअहं मनुष्यःइति देहेन्द्रियादिषु अहं ममेदमित्यभिमानात्मकस्य लोकव्यवहारस्य अविद्यानिर्मितत्वप्रदर्शनपरेण भाष्येण ? उच्यतेब्रह्मज्ञानं हि सूत्रितं अनर्थहेतुनिबर्हणम् । अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वभोक्तृत्वम् । तत् यदि वस्तुकृतं, ज्ञानेन निबर्हणीयम् ; यतः ज्ञानं अज्ञानस्यैव निवर्तकम् । तत् यदि कर्तृत्वभोक्तृत्वम् अज्ञानहेतुकं स्यात् , ततो ब्रह्मज्ञानं अनर्थहेतुनिबर्हणमुच्यमानमुपपद्येत । तेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूचयता अविद्याहेतुकं कर्तृत्वभोक्तृत्वं प्रदर्शितं भवति । अतः तत्प्रदर्शनद्वारेण सूत्रार्थोपपत्त्युपयोगितया सकलतन्त्रोपोद्घातः प्रयोजनमस्य भाष्यस्य । तथा चास्य शास्त्रस्य ऐदम्पर्यं सुखैकतानसदात्मककूटस्थचैतन्यैकरसता संसारित्वाभिमतस्यात्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति प्रतिपादितम् । तच्च अहं कर्ता सुखी दुःखी इति प्रत्यक्षाभिमतेन अबाधितकल्पेन अवभासेन विरुध्यते । अतः तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपं अविद्यानिर्मितं आत्मन इति यावत् प्रतिपाद्यते, तावत् जरद्गवादिवाक्यवदनर्थकं प्रतिभाति ; अतः तन्निवृत्त्यर्थम् अविद्याविलसितम् अब्रह्मस्वरूपत्वम् आत्मन इति प्रतिपादयितव्यम् । वक्ष्यति एतत् अविरोधलक्षणे जीवप्रक्रियायां सूत्रकारः तद्गुणसारत्वात्’ (ब्र. सू. २-३-२९) इत्यादिना

यद्येवमेतदेव प्रथममस्तु, मैवम् ; अर्थविशेषोपपत्तेः । अर्थविशेषे हि समन्वये प्रदर्शिते तद्विरेधाशङ्कायां तन्निराकरणमुपपद्यते । अप्रदर्शिते पुनः समन्वयविशेषे, तद्विरोधाशङ्का तन्निराकरणं निर्विषयं स्यात् । भाष्यकारस्तु तत्सिद्धमेव आदिसूत्रेण सामर्थ्यबलेन सूचितं सुखप्रतिपत्त्यर्थं वर्णयतीति दोषः

ननु ग्रन्थकरणादिकार्यारम्भे कार्यानुरूपं इष्टदेवतापूजानमस्कारेण बुद्धिसन्निधापिताथवृद्ध्यादिशब्दैः दध्यादिदर्शनेन वा कृतमङ्गलाः शिष्टाः प्रवर्तन्ते । शिष्टाचारश्च नः प्रमाणम् । प्रसिद्धं मङ्गलाचरणस्य विघ्नोपशमनं प्रयोजनम् । महति निःश्रेयसप्रयोजने ग्रन्थमारभमाणस्य विघ्नबाहुल्यं सम्भाव्यते । प्रसिद्धं `श्रेयांसि बहुविघ्नानि' इति । विज्ञायते च-'तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः' इति, येषां यन्न प्रियं ते तद्विघ्नन्तीति प्रसिद्धं लोके । तत् कथमुल्लङ्घ्य शिष्टाचारं अकृतमङ्गल एव विस्रब्धं भाष्यकारः प्रववृते? अत्रोच्यते —'युष्मदस्मद्' इत्यादि `तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः' इत्यन्तमेव भाष्यम् । अस्य अयमर्थः—सर्वोपप्लवरहितो विज्ञानघनः प्रत्यगर्थः इति । तत् कथञ्चन परमार्थतः एवम्भूते वस्तुनि रूपान्तरवदवभासो मिथ्येति कथयितुम् तदन्यपरादेव भाष्यवाक्यात् निरस्तसमस्तोपप्लवं चैतन्यैकतानमात्मानं प्रतिपद्यमानस्य कुतो विघ्नोपप्लवसम्भवः? तस्मात् अग्रणीः शिष्टाचारपरिपालने भगवान् भाष्यकारः ।

विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् इति ।

कोऽयं विरोधः? कीदृशो वा इतरेतरभावः अभिप्रेतः? यस्य अनुपपत्तेः—'तमःप्रकाशवत्' इति निदर्शनम् । यदि तावत् सहानवस्थानलक्षणो विरोधः, ततः प्रकाशभावे तमसो भावानुपपत्तिः, तदसत् ; दृश्यते हि मन्दप्रदीपे वेश्मनि अस्पष्टं रूपदर्शनं, इतरत्र स्पष्टम् । तेन ज्ञायते मन्दप्रदीपे वेश्मनि तमसोऽपि ईषदनुवृत्तिरिति ; तथा छायायामपि औष्ण्यं तारतम्येन उपलभ्यमानं आतपस्यापि तत्र अवस्थानं सूचयति । एतेन शीतोष्णयोरपि युगपदुपलब्धेः सहावस्थानमुक्तं वेदितव्यम् । उच्यते परस्परानात्मतालक्षणो विरोधः, जातिव्यक्त्योरिव परमार्थतः परस्परसम्भेदः सम्भवतीत्यर्थः ; तेन इतरेतरभावस्य-इतरेतरसम्भेदात्मकत्वस्य अनुपपत्तिः । कथम्? स्वतस्तावत् विषयिणः चिदेकरसत्वात् युष्मदंशसम्भवः । अपरिणामित्वात् निरञ्जनत्वाच्च परतः । विषयस्यापि स्वतः चित्सम्भवः, समत्वात् विषयत्वहानेः ; परतः ; चितेः अप्रतिसङ्क्रमत्वात् ।

तद्धर्माणामपि सुतराम् इति ।

एवं स्थिते स्वाश्रयमतिरिच्य धर्माणाम् अन्यत्र भावानुपपत्तिः सुप्रसिद्धा इति दर्शयति । इति शब्दो हेत्वर्थः । यस्मात् एवम् उक्तेन न्यायेन इतरेतरभावासम्भवः,

अतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके इति

अस्मत्प्रत्यये यः अनिदमंशः चिदेकरसः तस्मिन् तद्बलनिर्भासिततया लक्षणतो युष्मदर्थस्य मनुष्याभिमानस्य सम्भेद इव अवभासः एव अध्यासः ।

तद्धर्माणां इति

यद्यपि विषयाध्यासे तद्धर्माणामप्यर्थसिद्धः अध्यासः ; तथापि विनापि विषयाध्यासेन तद्धर्माध्यासो बाधिर्यादिषु श्रोत्रादिधर्मेषु विद्यते इति पृथक् धर्मग्रहणम् ।

तद्विपर्ययेण विषयिणस्तद्धर्माणां इति

चैतन्यस्य तद्धर्माणां इत्यर्थः । ननु विषयिणः चिदेकरसस्य कुतो धर्माः ? ये विषये अध्यस्येरन् , उच्यते ; आनन्दो विषयानुभवो नित्यत्वमिति सन्ति धर्माः, अपृथक्त्वेऽपि चैतन्यात् पृथगिव अवभासन्ते इति दोषः । अध्यासो नाम अतद्रूपे तद्रूपावभासः ।

सः मिथ्येति भवितुं युक्तम् इति ।

मिथ्याशब्दो द्व्यर्थः अपह्नववचनोऽनिर्वचनीयतावचनश्च । अत्र अयमपह्नववचनः । मिथ्येति भवितुं युक्तम् अभाव एवाध्यासस्य युक्तः इत्यर्थः । यद्यप्येवं ;

तथापि नैसर्गिकः

प्रत्यक्चैतन्यसत्तात्रामानुबन्धी ।

अयं

युष्मदस्मदोः इतरेतराध्यासात्मकः ।

अहमिदं ममेदमितिलोकव्यवहारः ।

तेन यथा अस्मदर्थस्य सद्भावो उपालम्भमर्हति, एवमध्यासस्यापि इत्यभिप्रायः । लोक इति मनुष्योऽहमित्यभिमन्यमानः प्राणिनिकायः उच्यते । व्यवहरणं व्यवहारः ; लोक इति व्यवहारो लोकव्यवहारः ; मनुष्योऽहमित्यभिमानः इत्यर्थः ।

सत्यानृते मिथुनीकृत्य इति ।

सत्यम् अनिदं, चैतन्यम् । अनृतं युष्मदर्थः ; स्वरूपतोऽपि अध्यस्तस्वरूपत्वात् । ‘अध्यस्य’ ‘मिथुनीकृत्यइति क्त्वाप्रत्ययः, पूर्वकालत्वमन्यत्वं लोकव्यवहारादङ्गीकृत्य प्रयुक्तः ; भुक्त्वा व्रजतीतिवत् क्रियान्तरानुपादानात् । ‘अध्यस्य नैसर्गिकोऽयं लोकव्यवहारःइति स्वरूपमात्रपर्यवसानात् । उपसंहारे एवमयमनादिरनन्तो नैसर्गिकोऽध्यासःइति तावन्मात्रोपसंहारात्

अतः चैतन्यं पुरुषस्य स्वरूपम् इतिवत् व्यपदेशमात्रं द्रष्टव्यम् ।

मिथ्याज्ञाननिमित्तः इति ।

मिथ्या तदज्ञानं मिथ्याज्ञानम् । मिथ्येति अनिर्वचनीयता उच्यते । अज्ञानमिति जडात्मिका अविद्याशक्तिः ज्ञानपर्युदासेन उच्यते । तन्निमित्तः तदुपादानः इत्यर्थः

कथं पुनः नैमित्तकव्यवहारस्य नैसर्गिकत्वम् ? अत्रोच्यते ; अवश्यं एषा अविद्याशक्तिः बाह्याध्यात्मिकेषु वस्तुषु तत्स्वरूपसत्तामात्रानुबन्धिनी अभ्युपगन्तव्या ; अन्यथा मिथ्यार्थावभासानुपपत्तेः । सा जडेषु वस्तुषु तत्स्वरूपावभासं प्रतिबध्नाति ; प्रमाणवैकल्यादेव तदग्रहणसिद्धेः, रजतप्रतिभासात् प्राक् ऊर्ध्वं सत्यामपि तस्यां स्वरूपग्रहणदर्शनात् , अतः तत्र रूपान्तरावभासहेतुरेव केवलम् । प्रत्यगात्मनि तु चितिस्वभावत्वात् स्वयम्प्रकाशमाने ब्रह्मस्वरूपानवभासस्य अनन्यनिमित्तत्वात् तद्गतनिसर्गसिद्धाविद्याशक्तिप्रतिबन्धादेव तस्य अनवभासः । अतः सा प्रत्यक्चिति ब्रह्मस्वरूपावभासं प्रतिबध्नाति, अहङ्काराद्यतद्रूपप्रतिभासनिमित्तं भवति, सुषुप्त्यादौ अहङ्कारादिविक्षेप संस्कारमात्रशेषं स्थित्वा पुनरुद्भवति, इत्यतः नैसर्गिकोऽपि अहङ्कारममकारात्मको मनुष्याद्यभिमानो लोकव्यवहारः मिथ्याज्ञाननिमित्तः उच्यते, पुनः आगन्तुकत्वेन ; तेन नैसर्गिकत्वं नैमित्तिकत्वेन विरुध्यते

अन्योन्यधर्मांश्चइति

पृथक् धर्मग्रहणं धर्ममात्रस्यापि कस्यचिदध्यास इति दर्शयितुम् ।

इतरेतराविवेकेन इति

एकतापत्त्यैव इत्यर्थः ।

कस्य धर्मिणः कथं कुत्र अध्यासः ? धर्ममात्रस्य वा क्व अध्यासः ? इति भाष्यकारः स्वयमेव वक्ष्यति ।

अहमिदं ममेदम् इति

अध्यासस्य स्वरूपं दर्शयति । अहमिति तावत् प्रथमोऽध्यासः । ननु अहमिति निरंशं चैतन्यमात्रं प्रतिभासते, अंशान्तरम् अध्यस्तं वा । यथा अध्यस्तांशान्तर्भावः, तथा दर्शयिष्यामः । ननु इदमिति अहङ्कर्तुः भोगसाधनं कार्यकरणसङ्घातः अवभासते, ममेदमिति अहङ्कर्त्रा स्वत्वेन तस्य सम्बन्धः । तत्र किञ्चित् अध्यस्तमिव दृश्यते । उच्यते ; यदैव अहङ्कर्ता अध्यासात्मकः, तदैव तदुपकरणस्यापि तदात्मकत्वसिद्धिः । हि स्वप्नावाप्तराज्याभिषेकस्य माहेन्द्रजालनिर्मितस्य वा राज्ञः राज्योपकरणं परमार्थसत् भवति, एवम् अहङ्कर्तृत्वप्रमुखः क्रियाकारकफलात्मको लोकव्यवहारः अध्यस्तः नित्यशुद्धबुद्धमुक्तस्वभावे आत्मनि । अतः तादृग्ब्रह्मात्मानुभवपर्यन्तात् ज्ञानात् अनर्थहेतोः अध्यासस्य निवृत्तिरुपपद्यते, इति तदर्थविषयवेदान्तमीमांसारम्भः उपपद्यते