ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति ॥
अन्तर्णीतविचारार्थान्वये हि चतुर्थीसमासः स्यात् , न शब्दाभिधेय इत्यवयवार्थमङ्गीकृत्य षष्ठीसमासो दर्शितः ॥
ब्रह्मशब्दस्यार्थनिर्देशावसरे प्राप्ते सूत्रकार एव निर्देक्ष्यतीति कथयति —
ब्रह्म च वक्ष्यमाणलक्षणं जन्माद्यस्य यत इति ॥
तत्र यदन्यैर्वृत्तिकारैर्ब्रह्मशब्दस्यार्थान्तरमाशङ्क्य निरस्यते । न खलु ब्राह्मणजातिरिह गृह्यते ; प्रत्यक्षसिद्धत्वाद् जिज्ञास्यत्वाभावात् , नापि तत्कर्तृका जिज्ञासा ; त्रैवर्णिकाधिकारात् , नापि जीवपरिग्रहः ; तत्कर्तृत्वे विशेषणानर्थक्यात् , कर्मत्वे नित्यसिद्धत्वात् , न शब्दराशेर्ग्रहणम् ; तस्य धर्मजिज्ञासौत्पत्तिकसूत्राभ्यामर्थवत्त्वप्रमाणत्वयोर्निरूपितत्वात् , नापि हिरण्यगर्भस्य ; तदवाप्तेरपि विरक्तस्य ब्रह्मजिज्ञासोपदेशात् , नापि तत्कर्तृकता ; ज्ञानवैराग्ययोः सह सिद्धत्वात् इति, तदपि न कर्तव्यमित्याह —
अत एव न ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यमिति ॥
ब्रह्मण इति कर्मणि षष्ठी ॥
वृत्त्यन्तरे तु शेषलक्षणा व्याख्याता, तां निरस्यति —
न शेष इति ॥
तत्र हेतुमाह —
जिज्ञास्यापेक्षत्वाज्जिज्ञासाया इति ॥
अथापि स्यात् अन्यत् जिज्ञास्यमिति, तदर्थमाह —
जिज्ञास्यान्तरानिर्देशाच्चेति ॥
पुनः शेषषष्ठीवाद्याह —
ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्यते ; सम्बन्धसामान्यस्य विशेषनिष्ठत्वादिति ॥
यद्यपि ‘शेषे षष्ठी’ति सम्बन्धमात्रे षष्ठी विहिता ; तथाऽपि व्यवहारो विशेषमवलम्बते, बहवश्च सम्बन्धविशेषाः, तत्रावश्यमन्यतमः प्रतिपत्तव्यः ; अन्यथा व्यवहारानुपपत्तेः । तत्र प्रकरणोपपदयोर्विशेषहेत्वोरभावादर्थाद्विशेषक्रियोपादानात् कारकत्वेनैव सम्बन्धः । तत्रापि सकर्मिकायाः कर्मकारकमभ्यर्हितम् , इति कर्मत्वं ब्रह्मणो न विरुध्यते । एवमपि साधारणे शब्देऽभिप्रेतमर्थं विहायार्थान्तरं परिगृह्य, पुनस्तद्द्वारेणाभिप्रेतमर्थं प्रतिपद्यमानस्य व्यर्थः प्रयासः स्यात् , तदाह —
एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यादिति ॥
ननु किमिति व्यर्थः ? शेषषष्ठीपरिग्रहे सामान्येन यत् किञ्चिद् ब्रह्मसम्बन्धि येन येन जिज्ञासितेन विना ब्रह्म जिज्ञासितं न भवति तत्सर्वं जिज्ञास्यत्वेन प्रतिज्ञातं स्यात् ; अतो न विशिष्टसम्बन्धो विवक्ष्यते ; सामान्ये तस्याप्यन्तर्भवादिति यद्युच्यते, तदाह —
न व्यर्थः ; ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेति ॥
स्वयमेव परोक्तमाशङ्क्योत्तरमाह —
न ; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वादिति ।
सङ्क्षेपतो वस्तुसङ्ग्रहवाक्यम् । एतदेव प्रपञ्चयति —
ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात् प्रधानम् । तस्मिन् प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति, तान्यर्थाक्षिप्तान्येव, इति न पृथक् सूत्रयितव्यानि । यथा ‘राजाऽसौ गच्छती’त्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वदिति ॥
यस्माद् ब्रह्मावाप्तिः पुरुषार्थः, तेन तद् ज्ञानेनाप्तुमिष्टतमम् , अतस्तदर्थत्वात् प्रवृत्तेः प्रधानं तत् । तस्मिन् प्रधाने जिज्ञास्यमाने, येन जिज्ञासितेन विना न सम्पूर्णा जिज्ञासा, तत् सामर्थ्यादेव तादर्थ्येन जिज्ञास्यते, न पृथगभिधानेन कृत्यमस्ति । यथा ‘राजाऽसौ गच्छती’त्युक्ते यावता परिवारेण विना राज्ञो गमनं न सम्पद्यते, तावतो गमनमाक्षिप्तमिति न पृथगभिधीयते लोके, तद्वदिहापि स्वरूप - प्रमाण - युक्ति - साधन - प्रयोजनानि ब्रह्मज्ञानपरिपूर्णतार्थमर्थादेव जिज्ञास्यत्वान्न पृथक् सूत्रयितव्यानि । किञ्च शास्त्रप्रवृत्तिरेव कर्मणि षष्ठीं गमयति । कथम् ? एवं हि शास्त्रमारब्धव्यम् । ‘पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इत्यादिश्रुतेर्न्यायतश्च पुण्यस्य क्षयदर्शनाद् विरक्तस्य ‘ब्रह्मविदाप्नोति परमि’त्यादिश्रुतेर्ब्रह्मज्ञानात्पुरुषार्थसिद्धिः परेति । अतस्तज्ज्ञातुमिच्छतः श्रुत्या ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्येवमाद्यया तत्प्रतिपादनपूर्वकं ‘तद्विजिज्ञासस्व’ (तै. उ. ३-१-१) इति साक्षादेव कर्मतया ज्ञेयत्वेनानुशासनं यत् , तदिदम् — ‘अथातो ब्रह्मजिज्ञासे’ति सूचितम् । तेन कर्मषष्ठीपरिग्रहे श्रुतिन्यायसूचनपरं सूत्रं तदनुगतं भवति ; अन्यथा लक्ष्याननुगतमसम्बद्धं स्यात् । तदाह — श्रुत्यनुगमाच्चेति वस्तुसङ्ग्रहवाक्यम् । तत्प्रपञ्चः —
‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्याद्याश्च श्रुतयः ‘तद्विजिज्ञासस्व तद् ब्रह्मेति’ (तै. उ. ३-१-१) प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति । तच्च कर्मणि षष्ठीपरिग्रहे सूत्रेणानुगतं भवति । तस्माद् ब्रह्मण इति कर्मणि षष्ठी ॥