ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
पञ्चपादिका
 
जन्माद्यस्य यतः ॥ २ ॥
जन्म उत्पत्तिः आदिः अस्यइति तद्गुणसंविज्ञानो बहुव्रीहिःजन्मस्थितिभङ्गं समासार्थःजन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं श्रुतिनिर्देशस्तावत्यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इति, अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात्वस्तुवृत्तमपिजन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रलयसम्भवात्अस्येति प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देशःषष्ठी जन्मादिधर्मसम्बन्धार्थायत इति कारणनिर्देशःअस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति, तद्ब्रह्मेति वाक्यशेषःअन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम्यास्कपरिपठितानां तुजायतेऽस्तिइत्यादीनां ग्रहणे तेषां जगतः स्थितिकाले सम्भाव्यमानत्वान्मूलकारणादुत्पत्तिस्थितिनाशा जगतो गृहीताः स्युरित्याशङ्क्येततन्मा शङ्कि; इति या उत्पत्तिर्ब्रह्मणः, तत्रैव स्थितिः प्रलयश्च, एव गृह्यन्ते यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वा, अन्यतः प्रधानादचेतनात् अणुभ्यः अभावात् संसारिणो वा उत्पत्त्यादि सम्भावयितुं शक्यम् स्वभावतः, विशिष्टदेशकालनिमित्तानामिहोपादानात्एतदेवानुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वरकारणवादिनः

जन्म उत्पत्तिः आदिरस्येति तद्गुणसंविज्ञानो बहुव्रीहिरिति ; जन्मस्थितिभङ्गं समासार्थ इति ॥ ; जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं चेति ॥ ; प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देश इति ॥ ; षष्ठी जन्मादिधर्मसम्बन्धार्थेति ; अस्य जगतः ; नामरूपाभ्यां व्याकृतस्येति ॥ ; नामरूपाभ्यामिति ॥ ; अनेककर्तृभोक्तृसंयुक्तस्येति ॥ ; प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्येति ॥ ; मनसाऽप्यचिन्त्यरचनारूपस्येति ॥ ; जन्मस्थितिभङ्गं यतः सर्वज्ञात् सर्वशक्तेः कारणाद् भवति, तद् ब्रह्मेति वाक्यशेष इति ; अन्येषामपीति ॥ ; यास्कपरिपठितानां तु जायतेऽस्तीत्यादीनामिति ॥ ; न यथोक्तविशेषणस्येत्यादिना ; यथोक्तविशेषणमीश्वरं मुक्त्वेति ; नान्यतः ; प्रधानादेरचेतनात् , ; संसारिणो ; उत्पत्त्यादि सम्भावयितुमपि शक्यम् ॥ ; न च स्वभावतः विशिष्टदेशकालनिमित्तोपादानादिति ॥ ; एतदेवानुमानमिति ॥ ;

युक्तिरपि लक्षणनिर्णयेऽर्थात् सूत्रितैव ।

जन्म उत्पत्तिः आदिरस्येति तद्गुणसंविज्ञानो बहुव्रीहिरिति

पदच्छेदः पदार्थः पदविग्रह इत्येतत् त्रितयमपि व्याख्यानाङ्गं सम्पादयति । तद्गुणसंविज्ञाने प्रयोजनमाह

जन्मस्थितिभङ्गं समासार्थ इति

तृतीयलिङ्गनिर्देशात् संहतिप्रधानं समासार्थः ।

ननु आदिः पूर्वकालकोटिमतो भवति, तदभावे प्रपञ्चस्य को नामाऽऽदिः ? इत्याशङ्क्याह

जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं चेति

यदनेन सूत्रेण लक्षितं ब्रह्म, तत्स्वरूपकथनपरं वाक्यम् । तत्रादौ जन्म निर्दिष्टमिति तस्यादित्वम् । वस्तुस्वभावापेक्षमपि । हि वस्तु प्रलीय तिष्ठति । स्थित्वा वा जायते । नापि जनित्वैव प्रलीयते ; क्षणिकत्वनिराकरणात् । अतो जनित्वा स्थित्वा प्रलीयते । एवमनादिरयं प्रपञ्चः ।

अस्यइति भाष्येण पदभागस्येदमः प्रकृतिमात्रस्यार्थनिर्देशः । तथाहि सर्वत्र सर्वनामप्रक्रमादिकारणान्तरबलेन कतिपयाभिधेयपरं, तदभावे स्वमहिम्ना प्रमाणविषयमात्राभिधायकं, तेनाह

प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देश इति

षष्ठी जन्मादिधर्मसम्बन्धार्थेति ।

सर्व वेह सम्बन्धः सम्भवति, तद्विशेष आदरणीय इति कथयति । यत इति कारणनिर्देश इति प्रकृतित्वनिबन्धना हि पञ्चमी, नान्यनिबन्धनेति दर्शयति

अस्य जगतः

इत्यादिना भाष्येण लक्ष्यस्य ब्रह्मणः स्वरूपलक्षणं कथयितुमुपक्रमते ।

द्विविधं हि लक्षणम् उपलक्षणं विशेषलक्षणं  । तत्रेदं लक्षणं प्रपञ्चधर्मत्वात् पृथग्भूतमेव कारणमुपलक्षयति विशेषणत्वेन । अतः पृथक् स्वलक्षणकथनम् ।

नामरूपाभ्यां व्याकृतस्येति

कार्यप्रपञ्चं केचित् स्वप्रक्रियानुसारेण विभजन्ति, तद्व्युदासाय प्रसिद्धार्थानुवादश्रुतिबलेन द्वैराश्यं कृत्वाऽऽह

नामरूपाभ्यामिति

इत्थम्भावे तृतीया

व्याक्रियमाणं हि वस्त्वभिधेयरूपं स्वनामगर्भं विकल्पपूर्वमेव व्याक्रियत इति स्वसंवेद्यमेतत् ।

अनेककर्तृभोक्तृसंयुक्तस्येति

कर्तृत्वभोक्तृत्वमपि नामरूपात्मकत्वात्प्रपञ्चानुयायीति दर्शयति

प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्येति

प्रतिकर्मफलोपभोगे नियतो देशः स्वर्गफलस्य मेरुपृष्ठं, ग्रामादिफलस्य भूमण्डलम् । कालोऽपि स्वर्गफलस्य देहपातादूर्ध्वं, पुत्रफलस्य बालभावात् । निमित्तमपि उत्तरायणादिमरणस्य ।

मनसाऽप्यचिन्त्यरचनारूपस्येति

ह्यर्वाग्दर्शी क्वचिद्बहिर्लोकसन्निवेशप्रकारमध्यात्मं प्रतिनियतार्थक्रियासमर्थावयवशिराजालसन्निवेशं निरूपयितुमपि समर्थः, किं पुनर्विरचयितुम्

जन्मस्थितिभङ्गं यतः सर्वज्ञात् सर्वशक्तेः कारणाद् भवति, तद् ब्रह्मेति वाक्यशेष इति

साकाङ्क्षस्य सूत्रवाक्यस्याकाङ्क्षितपदपूरणम् , उपलक्षितब्रह्मस्वरूपं लक्षणं दर्शयति

ननु अन्येऽपि परिणामादयो भावविकाराः सन्ति, ते किमिति सङ्गृह्यन्ते ? इत्याशङ्क्याह

अन्येषामपीति

क्वचिद्वस्तुनो ह्यवस्थाविशेषो विनाशरहितः, नाप्यनिर्वृत्तजन्मनोऽस्थित स्वभावस्य विनाशः । अतस्त्रिष्वेवान्तर्भावान्न पृथगुपन्यासस्तेषाम् ।

ननु षड् भावविकारा इति नैरुक्ताः । तेषां ग्रहणेऽन्तर्भावोक्तिप्रयासोऽपि परिहृतः स्यादित्याशङ्क्याह

यास्कपरिपठितानां तु जायतेऽस्तीत्यादीनामिति

पृथिव्यप्तेजःसु जगद्रचनारूपस्थितेषु तन्मयानामेव ते सम्भाव्यन्ते । ततस्तद्ग्रहणे तेषामेव ब्रह्मत्वेन लक्षितत्वाशङ्का स्यात् , तद्युक्तम् ; अतः सूत्रार्थवत्त्वाय श्रुतिनिर्दिष्टा एवोत्पत्त्यादयो गृह्यन्ते ; तदर्थनिर्णयार्थत्वात्सूत्राणाम् । अतो यदवष्टम्भो विश्वो विवर्तते प्रपञ्चः, तदेव मूलकारणं ब्रह्मेति सूत्रार्थः

ननु श्रुतिनिर्दिष्टग्रहणे सूत्रमर्थशून्यं स्यात् ; हीमां पृथिवीं जायमानां पश्यामः, नापो तेजः, कथं सिद्धवल्लक्षणत्वोनोपादीयेतेति ? उच्यते, तेजसस्तावदरणिनिर्मथनादिषु दृश्यते जन्म, इन्धनापाये विनाशः । अपामपि चन्द्रकान्तादिषु जन्म, क्रमेण शोषः । पृथिव्या अप्यवयवसंयोगविभागदर्शनात् तन्निमित्तौ जन्मविनाशावनुमीयेते । दृश्येत चाद्याऽप्यवयवसंयोगविभागकृतौ पृथिव्येकदेशस्य जन्मविनाशौ । वाय्वाकाशकालदिशामपियावद्विकारं तु विभागो लोकवदि’ति वक्ष्यमाणेन न्यायेन स्त एव जन्मविनाशौ ।

यथोक्तविशेषणस्येत्यादिना

भाष्येण युक्तिरपि ब्रह्मस्वरूपनिर्णयायानेनैव सूत्रेण तन्त्रेणावृत्त्या वा जन्माद्यस्य यतः सम्भवतीति सूत्रितेति दर्शयति ।

अस्य जगतो नामरूपाभ्यां व्याकृतस्येत्याद्यभिहितविशेषणचतुष्टयस्य,

यथोक्तविशेषणमीश्वरं मुक्त्वेति

सर्वज्ञं सर्वशक्तिं विहाय

नान्यतः

परपरिकल्पितात्

प्रधानादेरचेतनात् ,

चेतनादपि परिच्छिन्नज्ञानक्रियाशक्तेः

संसारिणो

हिरण्यगर्भात्

उत्पत्त्यादि सम्भावयितुमपि शक्यम्

अचेतनात्तावदचेतनत्वादेवानुपपन्नम् । चेतनादपि ; परिच्छिन्नज्ञानक्रियाशक्तित्वात् । अभावात् पुनर्नाचेतनत्वादेव केवलादनुपपत्तिः, अपि तु निरुपाख्यत्वादतीतकल्पसंस्काराभावात् , पूर्वकल्पैकरूपो वर्तमानोऽपि कल्प इति प्रमाणाभावात् , सर्व एव व्यवहारो यादृच्छिक इति क्वचित् कश्चिन्नियमोऽभविष्यत् ।

स्वभावतः विशिष्टदेशकालनिमित्तोपादानादिति

स्वभावो नामान्यानपेक्षः । तेनापेक्षैवानुपपन्ना, कुतो नियमसम्भवः ? अतो युक्त्याऽपि वस्त्वन्तरस्य कारणत्वसम्भावनानिराकरणेन पारिशेष्यात्पूर्वोक्तविशेषण ईश्वर एव कारणमिति सिद्धम्

एतदेवानुमानमिति

येयं युक्तिरभिहिता यथोक्तविशेषणमीश्वरं मुक्त्वा नान्यतो जगतो जन्मादि सम्भवतीति, एतदेव स्वतन्त्रमनुमानमीश्वरसिद्धौ सर्वज्ञत्वसर्वशक्तित्वसिद्धौ तस्य प्रमाणम् , किं वेदवाक्यैः ? इतीश्वरकारणिनः कणादप्रभृतयो मन्यन्ते ।