ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
आह — कोऽयमध्यासो नामेति । उच्यते — स्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित् अन्यत्रान्यधर्माध्यास इति वदन्ति । केचित्तु यत्र यदध्यासः तद्विवेकाग्रहनिबन्धनो भ्रम इति । अन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते । सर्वथापि तु अन्यस्यान्यधर्मावभासतां न व्यभिचरति । तथा च लोकेऽनुभवः — शुक्तिका हि रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति ॥

एवं च सूत्रेणार्थात्सूचिते विषयप्रयोजने प्रतिपाद्य तद्धेतुमध्यासं लक्षणसम्भावनाप्रमाणैः साधयितुं लक्षणं पृच्छति -

आहेति ।

किंलक्षणकोऽध्यास इत्याह । पूर्ववादीत्यर्थः । अस्य शास्त्रस्य तत्त्वनिर्णयप्रधानत्वेन वादकथात्वद्योतनार्थमाहेति परोक्तिः । ‘आह’ इत्यादि ‘कथं पुनःप्रत्यगात्मनि’ इत्यतः प्रागध्यासलक्षणपरं भाष्यम् । तदारभ्य सम्भावनापरम् । "तमेतमविद्याख्यम्" इत्यारभ्य "सर्वलोकप्रत्यक्षः" इत्यन्तं प्रमाणपरमिति विभागः ।

लक्षणमाह -

उच्यते - स्मृतिरूप इति ।

अध्यास इत्यनुषङ्गः । अत्र परत्रावभास इत्येव लक्षणम् , शिष्टं पदद्वयं तदुपपादनार्थम् । तथाहि अवभास्यत इत्यवभासो रजताद्यर्थः तस्यायोग्यमधिकरणं परत्रपदार्थः । अधिकरणस्यायोग्यत्वमारोप्यात्यन्ताभावत्वं तद्वत्वं वा । तथा चैकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाववति अवभास्यत्वमध्यस्तत्वमित्यर्थः । इदं च साद्यनाद्यध्याससाधारणं लक्षणम् । संयोगेऽतिव्याप्तिनिरासायैकावच्छेदेनेति । संयोगस्य स्वसंसृज्यमाने वृक्षे स्वात्यन्ताभाववत्यवभास्यत्वेऽपि स्वात्यन्ताभावयोर्मूलाग्रावच्छेदकभेदान्नातिव्याप्तिः । पूर्वं स्वाभाववति भूतले पश्चादानीतो घटो भातीति घटेऽतिव्याप्तिनिरासाय स्वसंसृज्यमान इति पदम् , तेन स्वाभावकाले प्रतियोगिसंसर्गस्य विद्यमानतोच्यते इति नातिव्याप्तिः । भूत्वावच्छेदेनावभास्यगन्धेऽतिव्याप्तिवारणाय स्वात्यन्ताभाववतीति पदम् । शुक्ताविदन्त्वावच्छेदेन रजतसंसर्गकालेऽत्यन्ताभावोऽस्तीति नाव्याप्तिः ।

नन्वस्य लक्षणस्यासम्भवः, शुक्तौ रजतस्य सामग्र्यभावेन संसर्गासत्वात् । न च स्मर्यमाणसत्यरजतस्यैव परत्र शुक्ताववभास्यत्वेनाध्यस्तत्वोक्तिरिति वाच्यम् , अन्यथाख्यातिप्रसङ्गादित्यत आह -

स्मृतिरूप इति ।

स्मर्यते इति स्मृतिः सत्यरजतादिः तस्य रूपमिव रूपमस्येति स्मृतिरूपः । स्मर्यमाणसदृश इत्यर्थः । सादृश्योक्त्या स्मर्यमाणादारोप्यस्य भेदात् , नान्यथाख्यातिरित्युक्तं भवति ।

सादृश्यमुपपादयति -

पूर्वदृष्टेति ।

दृष्टं दर्शनम् , संस्कारद्वारा पूर्वदर्शनादवभास्यत इति पूर्वदृष्टावभासः । तेन संस्कारजन्यज्ञानविषयत्वं स्मर्यमाणारोप्ययोः सादृश्यमुक्तं भवति, स्मृत्यारोपयोः संस्कारजन्यत्वात् । न च संस्कारजन्यत्वादारोपस्य स्मृतित्वापत्तिरिति वाच्यम् , दोषसम्प्रयोगजन्यत्वस्यापि विवक्षितत्वेन संस्कारमात्रजन्यत्वाभावात् । अत्र सम्प्रयोगशब्देन अधिष्ठानसामान्यज्ञानमुच्यते, अहङ्काराध्यासे इन्द्रियसम्प्रयोगालाभात् । एवं च दोषसम्प्रयोगसंस्कारबलाच्छुक्त्यादौ रजतमुत्पन्नमस्तीति परत्रावभास्यत्वलक्षणमुपपन्नमिति स्मृतिरूपपूर्वदृष्टपदाभ्यामुपपादितम् । अन्ये तु ताभ्यां दोषादित्रयजन्यत्वं कार्याध्यासलक्षणमुक्तमित्याहुः । अपरे तु स्मृतिरूपः स्मर्यमाणसदृशः, सादृस्यं च प्रमाणाजन्यज्ञानविषयत्वं स्मृत्यारोपयोः प्रमाणाजन्यत्वात् । पूर्वदृष्टपदतज्जातीयपरम् , अभिनवरजतादेः पूर्वदृष्टत्वाभावात् । तथा च प्रमाणाजन्यज्ञानविषयत्वे सति पूर्वदृष्टजातीयत्वं प्रातीतिकाध्यासलक्षणं ताभ्यामुक्तम् । परत्रावभासशब्दाभ्यामध्यासमात्रलक्षणं व्याख्यातमेव । तत्र स्मर्यमाणगङ्गादौ अभिनवघटे चातिव्याप्तिनिरासाय प्रमाणेत्यादि पदद्वयमित्याहुः । तत्रार्थाध्यासे स्मर्यमाणसदृशः परत्र पूर्वदर्शनादवभास्यत इति योजना । ज्ञानाध्यासे तु स्मृतिसदृशः परत्र पूर्वदर्शनादवभास इति वाक्यं योजनीयमिति सङ्क्षेपः ।

ननु अध्यासे वादिविप्रतिपत्तेः कथमुक्तलक्षणसिद्धिरित्याशङ्क्याधिष्ठानारोप्यस्वरूपविवादेऽपि परत्र परावभास इति लक्षणे संवादाद्युक्तिभिः सत्याधिष्ठाने मिथ्यार्थावभाससिद्धेः सर्वतन्त्रसिद्धान्त इदं लक्षणमिति मत्वा अन्यथात्मख्यातिवादिनोर्मतमाह -

तं केचिदिति ।

केचिदन्यथाख्यातिवादिनोऽन्यत्र शुक्त्यादावन्यधर्मस्य स्वावयवधर्मस्य देशान्तरस्थरूप्यादेरध्यास इति वदन्ति । आत्मख्यातिवादिनस्तु बाह्यशुक्त्यादौ बुद्धिरूपात्मनो धर्मस्य रजतस्याध्यासः, आन्तरस्य रजतस्य बहिर्वदवभास इति वदन्तीत्यर्थः ।

अख्यातिमतमाह -

केचिदिति ।

यत्र यस्याध्यासो लोकसिद्धस्तयोरर्थयोस्तद्धियोश्च भेदाग्रहे सति तन्मूलो भ्रमः, इदं रूप्यमिति विशिष्टव्यवहार इति वदन्तीत्यर्थः । तैरपि विशिष्टव्यवहारान्यथानुपपत्त्या विशिष्टभ्रान्तेः स्वीकार्यत्वात् , परत्र परावभाससम्मतिरिति भावः ।

शून्यमतमाह -

अन्ये त्विति ।

तस्यैवाधिष्ठानस्य शुक्त्यादेर्विपरीतधर्मत्वकल्पनां विपरीतो विरुद्धो धर्मो यस्य तद्भावस्तस्य रजतादेरत्यन्तासतः कल्पनामाचक्षत इत्यर्थः ।

एतेषु मतेषु परत्र परावभासत्वलक्षणसंवादमाह -

सर्वथापि त्विति ।

अन्यथाख्यातित्वादिप्रकारविवादेऽप्यध्यासः परत्र परावभासत्वलक्षणं न जहातीत्यर्थः । शुक्तावपरोक्षस्य रजतस्य देशान्तरे बुद्धौ वा सत्त्वायोगात्शून्यत्वे प्रत्यक्षत्वायोगात् , शुक्तौ सत्त्वे बाधायोगात्मिथ्यात्वमेवेति भावः ।

आरोप्यमिथ्यात्वे न युक्त्यपेक्षा, तस्यानुभवसिद्धत्वादित्याह -

तथा चेति ।

बाधानन्तरकालीनोऽयमनुभवः, तत्पूर्वं शुक्तिकात्वज्ञानायोगात् , रजतस्य बाधप्रत्यक्षसिद्धं मिथ्यात्वं वच्छब्देनोच्यते ।

आत्मनि निरुपाधिकेऽहङ्काराध्यासे दृष्टान्तमुक्त्वा ब्रह्मजीवावान्तरभेदस्याविद्याद्युपाधिकस्याध्यासे दृष्टान्तमाह -

एक इति ।

द्वितीयचन्द्रसहितवदेक एवाङ्गुल्या द्विधा भातीत्यर्थः । लक्षणप्रकरणोपसंहारार्थ इति शब्दः ।