ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
शास्त्रयोनित्वात् ॥ ३ ॥
महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । न हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपि, स ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके । किमु वक्तव्यम् — अनेकशाखाभेदभिन्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमादिप्रविभागहेतोः ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्य अप्रयत्नेनैव लीलान्यायेन पुरुषनिःश्वासवत् यस्मान्महतो भूतात् योनेः सम्भवः — ‘अस्य महतो भूतस्य निःश्वसितमेतत् यदृग्वेदः’ (बृ. उ. २ । ४ । १०) इत्यादिश्रुतेः — तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति ॥

वेदे हि सर्वार्थप्रकाशनशक्तिरुपलभ्यते, सा तदुपादानब्रह्मगतशक्तिपूर्विका तद्गता वा, प्रकाशनशक्तित्वात् । कार्यगतशक्तित्वाद्वा, प्रदीपशक्तिवदिति वेदोपादानत्वेन ब्रह्मणः स्वसम्बद्धाशेषार्थप्रकाशनसामर्थ्यरूपं सर्वसाक्षित्वं सिध्यति । यद्वा यथा अध्येतारः पूर्वक्रमं ज्ञात्वा वेदं कुर्वन्ति, तथा विचित्रगुणमायासहायोऽनावृतानन्तस्वप्रकाशचिन्मात्रः परमेश्वरः स्वकृतपूर्वकल्पीयक्रमसजातीयक्रमवन्तं वेदराशिं तदर्थांश्च युगपज्जानन्नेव करोतीति न वेदस्य पौरुषेयता । यत्र ह्यर्थज्ञानपूर्वकं वाक्यज्ञानं वाक्यसृष्टौ कारणं तत्र पौरुषेयता, अत्र च यौगपद्यान्न सा, अतो वेदकर्ता वेदमिव तदर्थमपि स्वसम्बद्धं नान्तरीयकतया जानातीति सर्वज्ञ इति सिद्धान्तयति -

शास्त्रेति ।

शास्त्रं प्रति हेतुत्वात् , ब्रह्म सर्वज्ञं सर्वकारणं च इति सङ्गतिद्वयानुसारेण सूत्रयोजनामभिप्रेत्य पदानि व्याचष्टे -

महत इति ।

हेतोः सर्वज्ञत्वसिद्धये वेदस्य विशेषणानि । तत्र ग्रन्थतोऽर्थतश्च महत्त्वम् , हितशासनात्शास्त्रत्वम् ।

शास्त्रशब्दः शब्दमात्रोपलक्षणार्थ इति मत्वाह -

अनेकेति ।

पुराणन्यायमीमांसाधर्मशास्त्राणि शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिषाणि षडङ्गानि इति दश विद्यास्थानानि वेदार्थज्ञानहेतवः । तैरुपकृतस्येत्यर्थः । अनेन मन्वादिभिः परिगृहीतत्वेन वेदस्य प्रामाण्यं सूचितम् ।

अबोधकत्वाभावादपि प्रामाण्यमित्याह -

प्रदीपवदिति ।

सर्वार्थप्रकाशनशक्तिमत्वेऽप्यचेतनत्वात्सर्वज्ञकल्पत्वं योनिरुपादानं कर्तृ च ।

ननु सर्वज्ञस्य यो गुणः सर्वार्थज्ञानशक्तिमत्वं वेदस्य तदन्वितत्वेऽपि तद्योनेः सर्वज्ञत्वं कुत इत्यत आह -

न हीति ।

उपादाने तच्छक्तिं विना कार्ये तदयोगाद्वेदोपादानस्य सर्वज्ञत्वम् , अनुमानं तु पूर्वं दर्शितम् । न चाविद्यायास्तदापत्तिः । शक्तिमत्वेऽप्यचेतनत्वादिति भावः ।

वेदः स्वविषयादधिकार्थज्ञानवज्जन्यः प्रमाणवाक्यत्वात् , व्याकरणरामायणादिवदित्यनुमानान्तरम् । तत्र व्याप्तिमाह -

यद्यदिति ।

विस्तरः शब्दाधिक्यम् , अनेनार्थतोऽल्पत्वं वदन् कर्तुर्ज्ञानस्यार्थाधिक्यं सूचयति, दृश्यते चार्थवादाधिक्यं वेदे । अत्रैषा योजना - यद्यच्छास्त्रं यस्मादाप्तात्सम्भवति स ततः शास्त्रादधिकार्थज्ञान इति प्रसिद्धम् , यथा शब्दसाधुत्वादिर्ज्ञेयैकदेशोऽर्थो यस्य तदपि व्याकरणादि पाणिन्यादेरधिकार्थज्ञात्सम्भवति । यद्यल्पार्थमपि शास्त्रमधिकार्थज्ञात्सम्भवति तदा ‘अस्य महतः’ इत्यादिश्रुतेर्यस्मान्महतोऽपरिच्छिन्नाद्भूतात्सत्याद्योनेः सकाशात् अनेकशाखेत्यादिविशिष्टस्य वेदस्य पुरुषनिःश्वासवदप्रयत्नेनैव सम्भवः तस्य सर्वज्ञत्वं सर्वशक्तिमत्वं चेति किमु वक्तव्यमिति ।

तत्र वेदस्य पौरुषेयत्वशङ्कानिरसार्थं श्रुतिस्थनिःश्वसितपदार्थमाह -

अप्रयत्नेनेति ।

प्रमाणान्तरेणार्थज्ञानप्रयासं विना निमेषादिन्यायेनेत्यर्थः । अत्रानुमानेन ‘यः सर्वज्ञः’ इति श्रुत्युक्तसर्वज्ञत्वदार्ढ्याय पाणिन्यादिवद्वेदकर्तरि अधिकार्थज्ञानसत्तामात्रं साध्यते न त्वर्थज्ञानस्य वेदहेतुत्वं निःश्वसितश्रुतिविरोधात् , वेदज्ञानमात्रेणाध्येतृवद्वेदकर्तृत्वोपपत्तेश्च । इयान् विशेषः - अध्येता परापेक्षः, ईश्वरस्तु स्वकृतवेदानुपूर्वीं स्वयमेव स्मृत्वा तथैव कल्पादौ ब्रह्मादिष्वाविर्भावयन् अनावृतज्ञानत्वात्तदर्थमत्यवर्जनीयतया जानातीति सर्वज्ञ इत्यनवद्यम् ॥