ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
ईक्षतेर्नाशब्दम् ॥ ५ ॥
साङ्ख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम्अशब्दं हि तत्कथमशब्दत्वम् ? ईक्षतेः ईक्षितृत्वश्रवणात्कारणस्यकथम् ? एवं हि श्रूयतेसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्युपक्रम्य तदैक्षत बहु स्यां प्रजायेयेति त्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इतितत्र इदंशब्दवाच्यं नामरूपव्याकृतं जगत् प्रागुत्पत्तेः सदात्मनावधार्य, तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयतितथान्यत्रआत्मा वा इदमेक एवाग्र आसीत्नान्यत्किञ्चन मिषत् ईक्षत लोकान्नु सृजा इति ।’ (ऐ. उ. १ । १ । १) इमाँल्लोकानसृजत’ (ऐ. उ. १ । १ । २) इतीक्षापूर्विकामेव सृष्टिमाचष्टेक्वचिच्च षोडशकलं पुरुषं प्रस्तुत्याह ईक्षाञ्चक्रे’ (प्र. उ. ६ । ३), प्राणमसृजत’ (प्र. उ. ६ । ४) इतिईक्षतेरिति धात्वर्थनिर्देशोऽभिप्रेतः, यजतेरितिवत् , धातुनिर्देशःतेन यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपःतस्मादेतद्ब्रह्म नाम रूपमन्नं जायते’ (मु. उ. १ । १ । ९) इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यान्युदाहर्तव्यानि

ब्रह्मणः कारणत्वं स्मृतिपादे समर्थ्यते । प्रधानादेः कारणत्वं तर्कपादे युक्तिभिर्निरस्यति । अधुना तु श्रुत्या निरस्यति

ईक्षतेर्नाशब्दमिति ।

ईक्षणश्रवणाद्वेदशब्दावाच्यमशब्दं प्रधानम् । अशब्दत्वान्न कारणमिति सूत्रयोजना । तत्सच्छब्दवाच्यं कारणमैक्षत ।

ईक्षणमेवाह

बह्विति ।

बहु प्रपञ्चरूपेण स्थित्यर्थमहमेवोपादानतया कार्याभेदाज्जनिष्यामीत्याह

प्रजेति ।

एवं तत्सदीक्षित्वा आकाशं वायुं च सृष्ट्वा तेजः सृष्टवदित्याह

तदिति ।

मिषच्चलत् । सत्वाक्रान्तमिति यावत् स जीवाभिन्नः परमात्मा 'प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनो अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोकालोकेषु नाम च' इत्युक्ताः षोडशकलाः ।

ननु 'इक्श्तिपो धातुनिर्देशे' इति कात्यायनस्मरणादीक्षतेरिति पदेन श्तिबन्तेन धातुरुच्यते । तेन धात्वर्थमीक्षणं कथं व्याख्यायत इत्याशङ्क्य लक्षणयेत्याह

ईक्षितेरितिचेति ।

'इतिकर्तव्यताविधेर्यजतेः पूर्ववत्वं' इति जैमिनिसूत्रे यथा यजतिपदेन लक्षणया धात्वर्थो याग उच्यते तद्वदिहापीत्यर्थः । सौर्यादिविकृतियागस्याङ्गानामविधानात्पूर्वदर्शादिप्रकृतिस्थाङ्गवत्वमिति सूत्रार्थः ।

धात्वर्थनिर्देशेन लाभमाह

तेनेति ।

सामान्यतः सर्वज्ञो विशेषतः सर्वविदिति भेदः । ज्ञानमीक्षणमेव तपः । तपस्विनः फलमाह

तस्मादिति ।