वृत्तमनूद्याक्षेपलक्षणामवान्तरसङ्गतिमाह
साङ्ख्यादयस्त्विति ।
भवतु सिद्धे वेदान्तानां समन्वयः, तथापि मानान्तरायोगे ब्रह्मणि शक्तिग्रहायोगात् , कूटस्थत्वेनाविकारित्वेन कारणत्वायोगाच्च न समन्वयः । किन्तु सर्गाद्यं कार्यं जडप्रकृतिकम् , कार्यत्वात् , घटवतित्यनुमानगम्ये त्रिगुणे प्रधाने समन्वय इत्याक्षिपन्तीत्यर्थः । सिद्धं मानान्तरगम्यमेवेत्याग्रहः शक्तिग्रहार्थः । अत एव प्रधानादवनुमानोपस्थिते शक्तिग्रहसम्भवात्तत्परतया वाक्यानि योजयन्तीत्युक्तम् । किं च 'तेजसा सोम्यशुङ्गेन सन्मूलमन्विच्छ' इत्याद्याः श्रुतयः ।
शुङ्गेन लिङ्गेन कारणस्य स्वतोऽन्वेषणं दर्शयन्तो मानान्तरसिद्धमेव जगत्कारणं वदन्तीत्याह
सर्वेष्विति ।
नन्वतीन्द्रियत्वेन प्रधानादेर्व्याप्तिग्रहायोगात्कथमनुमानम् , तत्राह
प्रधानेति ।
यत्कार्यं तज्जडप्रकृतिकम् , यथा घटः । यज्जडं तच्चेतनसंयुक्तम् , यथा रथादिरिति सामान्यतोदृष्टानुमानगम्याः प्रधानपुरुष संयोगा इत्यर्थः ।
अद्वितीयब्रह्मणः कारणत्वविरोधिमतान्तरमाह
काणादास्त्विति ।
सृष्टिवाक्येभ्य एव परार्थानुमानरूपेभ्यो यत्कार्यं तद्बुद्धिमत्कर्तृकमितीश्वरं कर्तारम् , परमाणूंश्च यत्कार्यद्रव्यं तत्स्वन्यूनपरिमाणद्रव्यारब्दमित्यनुमिमत इत्यर्थः ।
अन्येऽपि बौद्धादयः । 'असद्वा इदमग्र आसीत्' इत्यादि वाक्याभासः । यद्वस्तु तच्छून्यावसानम् , यथा दीप इति युक्त्याभासः । एवं वादिविप्रतिपत्तिमुक्त्वा तन्निरासायोत्तरसूत्रसन्दर्भमवतारयति
तत्रेति ।
वादिविवादे सतीत्यर्थः ।