ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
तत्र साङ्ख्याः प्रधानं त्रिगुणमचेतनं स्वतन्त्रं जगतः कारणमिति मन्यमाना आहुःयानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं प्रदर्शयन्तीत्यवोचः, तानि प्रधानकारणपक्षेऽपि योजयितुं शक्यन्तेसर्वशक्तिमत्वं तावत्प्रधानस्यापि स्वविकारविषयमुपपद्यतेएवं सर्वज्ञत्वमप्युपपद्यतेकथम् ? यत्त्वं ज्ञानं मन्यसे, सत्त्वधर्मः, सत्त्वात्संजायते ज्ञानम्’ (भ. गी. १४ । १७) इति स्मृतेःतेन सत्त्वधर्मेण ज्ञानेन कार्यकरणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाःसत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् केवलस्य अकार्यकरणस्य पुरुषस्योपलब्धिमात्रस्य सर्वज्ञत्वं किञ्चिज्ज्ञत्वं वा कल्पयितुं शक्यम्त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्थायामपि विद्यत इति प्रधानस्याचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते वेदान्तवाक्येषुअवश्यं त्वयापि सर्वज्ञं ब्रह्माभ्युपगच्छता सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमभ्युपगन्तव्यम् हि सर्वदा सर्वविषयं ज्ञानं कुर्वदेव ब्रह्म वर्ततेतथाहिज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत; अथानित्यं तदिति ज्ञानक्रियाया उपरमे उपरमेतापि ब्रह्म, तदा सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमापततिअपि प्रागुत्पत्तेः सर्वकारकशून्यं ब्रह्मेष्यते त्वया ज्ञानसाधनानां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्यचिदुपपन्नाअपि प्रधानस्यानेकात्मकस्य परिणामसम्भवात्कारणत्वोपपत्तिर्मृदादिवत् , नासंहतस्यैकात्मकस्य ब्रह्मणःइत्येवं प्राप्ते, इदं सूत्रमारभ्यते

व्याकरणमीमांसान्यायनिधित्वात्पदवाक्यप्रमाणज्ञत्वम् । यज्जगत्कारणं तच्चेतनमचेतनं वेति ईक्षणस्यमुख्यत्वगौणत्वाभ्यां संशये पूर्वपक्षमाह

तत्र साङ्ख्या इति ।

अपिशब्दावेवकारार्थौ । 'सदेव' इत्यादि स्पष्टब्रह्मलिङ्गवाक्यानां प्रधानपरत्वनिरासेन ब्रह्मपरत्वोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवस्यप्रधानैक्योपास्तिः, सिद्धान्तेब्रह्मैक्यज्ञानमिति विवेकः ।

अचेतनसत्वस्यैव सर्वज्ञत्वम् , न चेतनस्येत्याह

तेन च सत्वधर्मेणेति ।

न केवलस्येति ।

जन्यज्ञानस्य सत्वधर्मत्वान्नित्योपलब्धेरकार्यत्वाच्चिन्मात्रस्य न सर्वज्ञानकर्तृत्वमित्यर्थः ।

ननु गुणानां साम्यावस्थायां सत्वस्योत्कर्षाभावात्कथं सर्वज्ञतेत्याह

त्रिगुणत्वादिति ।

त्रयो गुणा एव प्रधानं तस्यसाम्यावस्था तदभेदात् प्रधानमित्युच्यते । तदवस्थायामपि प्रलये सर्वज्ञानशक्तिमत्वरूपं सर्वज्ञत्वमक्षतमित्यर्थः ।

ननु मया किमिति शक्तिमत्वरूपं गौणं सर्वज्ञत्वमङ्गीकार्यमिति, तत्राह

नहीति ।

अनित्यज्ञानस्य प्रलये नाशाच्छक्तिमत्वं वाच्यं कारकाभावाच्चेत्याह

अपि चेति ।

मतद्वयसाम्यमुक्त्वा स्वमते विशेषमाह

अपि चेति ।