ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
गौणश्चेन्नात्मशब्दात् ॥ ६ ॥
अत्राह — यदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृत्वश्रवणादिति, तदन्यथाप्युपपद्यते । अचेतनेऽपि चेतनवदुपचारदर्शनात् । यथा प्रत्यासन्नपतनतां नद्याः कूलस्यालक्ष्य ‘कूलं पिपतिषति’ इत्यचेतनेऽपि कूले चेतनवदुपचारो दृष्टः, तद्वदचेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुपचारो भविष्यति ‘तदैक्षत’ इति । यथा लोके कश्चिच्चेतनः ‘स्नात्वा भुक्त्वा चापराह्णे ग्रामं रथेन गमिष्यामि’ इतीक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते । तस्माच्चेतनवदुपचर्यते । कस्मात्पुनः कारणात् विहाय मुख्यमीक्षितृत्वम् औपचारिकं तत्कल्प्यते ? ‘तत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३) ‘ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात्; तस्मात्सत्कर्तृकमपीक्षणमौपचारिकमिति गम्यते, उपचारप्राये वचनात् । इत्येवं प्राप्ते, इदं सूत्रमारभ्यते —

संप्रत्युत्तरसूत्रनिरस्याशङ्कामाह

अत्राहेति ।

अन्यथापि अचेतनत्वेऽपि ।

ननु प्रधानस्य चेतनेन किं साम्यं येन गौणमीक्षणमिति तत्राह

यथेति ।

नियतक्रमवत्कार्यकारित्वं साम्यमित्यर्थः । ‘उपचारप्राये वचनात्’ इति गौणार्थप्रचुरे प्रकरणे समाम्नानादित्यर्थः ।