आत्महितकारित्वगुणयोगादात्मशब्दोऽपि प्रधाने गौण इति शङ्कते
अथेत्यादिना ।
आत्मशब्दः प्रधानेऽपि मुख्यो नानार्थकत्वादित्याह
अथवेति ।
नानार्थत्वे दृष्टान्तः
यथेति ।
'अथैष ज्योतिः’ श्रुत्या सहस्रदक्षिणाके क्रतौ ज्योतिष्टोमे लोकप्रयोगादग्नौ च ज्योतिःशब्दो यथा मुख्यस्तद्वदित्यर्थः ।