ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
आनन्दमयोऽभ्यासात् ॥ १२ ॥
तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायते — ‘तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २ । ५ । १) इति । तत्र संशयः — किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते, यत्प्रकृतम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, किं वान्नमयादिवद्ब्रह्मणोऽर्थान्तरमिति । किं तावत्प्राप्तम् ? ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात् । कस्मात् ? अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात् । अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति; न स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्च । मुख्यश्चेदात्मा आनन्दमयः स्यान्न प्रियादिसंस्पर्शः स्यात् । इह तु ‘तस्य प्रियमेव शिरः’ (तै. उ. २ । ५ । १) इत्यादि श्रूयते । शारीरत्वं च श्रूयते — ‘तस्यैष एव शारीर आत्मा यः पूर्वस्य’ इति । तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः । न च सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः । तस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते, इदमुच्यते —

पूर्वाधिकरणे गौणमुख्येक्षणयोरतुल्यत्वेन संशयाभावाद्गौणप्रायपाठो न निश्चायक इत्युक्तं तर्हि मयटो विकारे प्राचुर्ये च मुख्यत्वात्संशये विकारप्रायपाठादानन्दाधिकारो जीव आनन्दमय इति निश्चयोऽस्तीति प्रत्युदाहरणसङ्गत्या पूर्वपक्षमाह किं तावदित्याकाङ्क्षापूर्वकम्

किमिति ।

आनन्दमयपदस्यामुख्यार्थग्रहे हेतुं पृच्छति

कस्मादिति ।

विकारप्रायपाठहेतुमाह

अन्नमयादीति ।

श्रुत्यादिसङ्गतयः स्फुटा एव । पूर्वपक्षे वृत्तिकारमतेजीवोपास्त्या प्रियादिप्राप्तिः फलम् , सिद्धान्ते तु ब्रह्मोपास्त्येति भेदः ।

शङ्कते

अथापीति ।

परिहरति

न स्यादिति ।

सङ्गृहीतं विवृणोति

मुख्य इति ।

परमात्मेत्यर्थः ।

शारीरत्वेऽपीश्वरत्वं किं न स्यादित्यत आह

नचेति ।

जीवत्वं दुर्वारमित्यर्थः ।