नन्वानन्दपदाभ्यासेऽप्यानन्दमयस्य ब्रह्मत्वं कथमित्याशङ्क्य ज्योतिष्टोमाधिकारे ज्योतिष्पदस्य ज्योतिष्टोमपरत्ववदानन्दमयप्रकरणस्थानन्दमयपदस्यानन्दमयपरत्वात्तदभ्यासस्तस्य ब्रह्मत्वसाधक इत्यभिप्रेत्याह
आनन्दमयं प्रस्तुत्येति ।
रसः सारः । आनन्द इत्यर्थः । अयं लोकः । यद्यपि एष आकाशः पूर्णः आनन्दः साक्षिप्रेरको न स्यात्तदा को वान्याच्चलेत् , को वा विशिष्या प्राण्याज्जीवेत् , तस्मादेष एवानन्दयाति, आनन्दयतीत्यर्थः । 'युवा स्यात्साधुयुवा' इत्यादिना वक्ष्यमाणा मनुष्ययुवानन्दमारभ्य ब्रह्मानन्दावसाना एषा संनिहिता आनन्दस्य तारतम्यमीमांसा भवति । उपसङ्क्रामति विद्वान्प्राप्नोति इत्येकदेशिनामर्थः । मुख्यसिद्धान्ते तूपसङ्क्रमणं विदुषः कोशानां प्रत्यङ्मात्रत्वेन विलापनमिति ज्ञेयम् । शिष्टमुक्तार्थम् ।
आनन्दशब्दाद्ब्रह्मावगतिः सर्वत्र समानेति गतिसामान्यार्थमाह
श्रुत्यन्तरे चेति ।
लिङ्गादमुख्यात्मसंनिधेर्बाध इति मत्वाह
नासाविति ।
सर्वान्तरत्वं न श्रुतमित्याशङ्क्य ततोऽन्यस्यानुक्तेस्तस्य सर्वान्तरत्वमिति विवृणोति
मुख्यमिति ।
लोकबुद्धिमिति ।
तस्याः स्थूलग्राहितामनुसरदित्यर्थः ।
ताम्रस्य मूषाकारत्ववत्प्राणस्य देहाकारत्वं देहेन सामान्यम् , तथा मनः प्राणाकारं तेन सममित्याह
पूर्वेणेति ।
अतीतो योऽनन्तर उपाधिर्विज्ञानकोशस्तत्कृता सावयवत्वकल्पना, शरीरेण ज्ञेयत्वाच्छारीरत्वमिति लिङ्गद्वयं दुर्बलम् । अतः सहायाभावादभ्याससर्वान्तरत्वाभ्यां विकारसंनिधेर्बाध इति भावः ॥ १२ ॥