ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥
अत्राह — नानन्दमयः पर आत्मा भवितुमर्हति; कस्मात् ? विकारशब्दात् । प्रकृतवचनादयमन्यः शब्दो विकारवचनः समधिगतः ‘आनन्दमयः’ इति, मयटो विकारार्थत्वात् । तस्मादन्नमयादिशब्दवद्विकारविषय एवानन्दमयशब्द इति चेत् , न; प्राचुर्यार्थेऽपि मयटः स्मरणात् । ‘तत्प्रकृतवचने मयट्’ (पा. सू. ५ । ४ । २) इति हि प्रचुरतायामपि मयट् स्मर्यते; यथा ‘अन्नमयो यज्ञः’ इत्यन्नप्रचुर उच्यते, एवमानन्दप्रचुरं ब्रह्मानन्दमयमुच्यते । आनन्दप्रचुरत्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात् । तस्मात्प्राचुर्यार्थे मयट् ॥ १३ ॥

विकारार्थकमयट्श्रुतिसहाय इत्याशङ्क्य मयटः प्राचुर्येऽपि विधानान्मैवमित्याह

विकारेत्यादिना ।

तत्प्रकृतवचने मयडिति ।

तदितिप्रथमासमर्थाच्छब्दात्प्राचुर्यविशिष्टस्य प्रस्तुतस्य वचनेऽभिधाने गम्यमाने मयट्प्रत्ययो भवतीति सूत्रार्थः । अत्र वचनग्रहणात्प्रकृतस्य प्राचुर्यवैशिष्ट्यसिद्धिः, तादृशस्य लोके मयटोऽभिधानात् , यथा 'अन्नमयो यज्ञः' इति । अत्र ह्यन्नं प्रचुरमस्मिन्नित्यन्नशब्दः प्रथमाविभक्तिशक्तस्तस्मान्मयट्यज्ञस्य प्रकृत्यर्थान्नप्राचुर्यवाची दृश्यते न शुद्धप्रकृतवचन इति ध्येयम् ॥ १३ ॥