आनन्दमयस्य ब्रह्मत्वे लिङ्गमुक्त्वा प्रकरणमाह
मान्त्रेति ।
यस्मादेवं प्रकृतं तस्मात्तन्मान्त्रावर्णिकमेव ब्रह्मानन्दमय इति वाक्ये गीयत इति योजना ।
ननु मन्त्रोक्तमेवात्र ग्राह्ममिति को निर्बन्धः, तत्राह
मन्त्रेति ।
ब्राह्मणस्य मन्त्रव्याख्यानत्वादुपायत्वमस्ति, मन्त्रस्तूपेयः, तदिदमुक्तम्
अविरोधादिति ।
तयोरुपायोपेयभावादित्यर्थः ।
तर्ह्यन्नमयादीनामपि मान्त्रवर्णिकब्रह्मत्वं स्यादित्यत आह
न चेति ।
किञ्च भृगवे प्रोक्ता, वरुणेनोपदिष्टा भृगुवल्ली पञ्चमपर्यायस्थानन्दे प्रतिष्ठिता । तत्र स्थानन्यायेन तदेकार्थब्रह्मवल्ल्या आनन्दमये निष्ठेत्याह
एतन्निष्ठैवेति ॥ १५ ॥