मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भाष्यरत्नप्रभाव्याख्या
नेतरोऽनुपपत्तेः ॥ १६ ॥
इतश्चानन्दमयः
पर
एवात्मा
,
नेतरः
;
इतर
ईश्वरादन्यः
संसारी
जीव
इत्यर्थः
।
न
जीव
आनन्दमयशब्देनाभिधीयते
।
कस्मात्
?
अनुपपत्तेः
।
आनन्दमयं
हि
प्रकृत्य
श्रूयते
—
‘
सोऽकामयत
।
बहु
स्यां
प्रजायेयेति
।
स
तपोऽतप्यत
।
स
तपस्तप्त्वा
।
इदꣳ
सर्वमसृजत
।
यदिदं
किञ्च
’ (तै. उ. २ । ६ । १)
इति
।
तत्र
प्राक्शरीराद्युत्पत्तेरभिध्यानम्
,
सृज्यमानानां
च
विकाराणां
स्रष्टुरव्यतिरेकः
,
सर्वविकारसृष्टिश्च
न
परस्मादात्मनोऽन्यत्रोपपद्यते
॥ १६ ॥
स ईश्वरः तपः सृष्ट्यालोचनमतप्यत कृतवानित्यर्थः । अभिध्यानं कामना । 'बहु स्याम्' इत्यव्यतिरेकः ॥ १६ ॥