ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
अन्तस्तद्धर्मोपदेशात् इति । ‘य एषोऽन्तरादित्ये’, ‘य एषोऽन्तरक्षिणि’ इति च श्रूयमाणः पुरुषः परमेश्वर एव, न संसारी । कुतः ? तद्धर्मोपदेशात् । तस्य हि परमेश्वरस्य धर्मा इहोपदिष्टाः । तद्यथा — ‘तस्योदिति नाम’ इति श्रावयित्वा अस्यादित्यपुरुषस्य नाम ‘स एष सर्वेभ्यः पाप्मभ्य उदितः’ इति सर्वपाप्मापगमेन निर्वक्ति । तदेव च कृतनिर्वचनं नामाक्षिपुरुषस्याप्यतिदिशति — ‘यन्नाम तन्नाम’ इति । सर्वपाप्मापगमश्च परमात्मन एव श्रूयते — ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादौ । तथा चाक्षुषे पुरुषे ‘सैव ऋक् तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म’ इति ऋक्सामाद्यात्मकतां निर्धारयति । सा च परमेश्वरस्योपपद्यते, सर्वकारणत्वात्सर्वात्मकत्वोपपत्तेः । पृथिव्यग्न्याद्यात्मके चाधिदैवतमृक्सामे, वाक्प्राणाद्यात्मके चाध्यात्ममनुक्रम्याह — ‘तस्यर्क्च साम च गेष्णौ’ इत्यधिदैवतम् । तथाध्यात्ममपि — ‘यावमुष्य गेष्णौ तौ गेष्णौ’ इति । तच्च सर्वात्मकत्वे सत्येवोपपद्यते । ‘तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः’ (छा. उ. १ । ७ । ६) इति च लौकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दर्शयति । तच्च परमेश्वरपरिग्रह एव घटते — ‘यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम्’ (भ. गी. १० । ४१) इति भगवद्गीतादर्शनात् । लोककामेशितृत्वमपि निरङ्कुशं श्रूयमाणं परमेश्वरं गमयति । यत्तूक्तं हिरण्यश्मश्रुत्वादिरूपवत्त्वश्रवणं परमेश्वरे नोपपद्यत इति, अत्र ब्रूमः — स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् , ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’(म॰भा॰ १२-३३९-४५) ‘सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि’(म॰भा॰ १२-३३९-४६) इति स्मरणात् । अपि च, यत्र तु निरस्तसर्वविशेषं पारमेश्वरं रूपमुपदिश्यते, भवति तत्र शास्त्रम् ‘अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५) इत्यादि । सर्वकारणत्वात्तु विकारधर्मैरपि कैश्चिद्विशिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यते — ‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः’ (छा. उ. ३ । १४ । २) इत्यादिना । तथा हिरण्यश्मश्रुत्वादिनिर्देशोऽपि भविष्यति । यदप्याधारश्रवणान्न परमेश्वर इति, अत्रोच्यते — स्वमहिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपासनार्थो भविष्यति । सर्वगतत्वाद्ब्रह्मणो व्योमवत्सर्वान्तरत्वोपपत्तेः । ऐश्वर्यमर्यादाश्रवणमप्यध्यात्माधिदैवतविभागापेक्षमुपासनार्थमेव । तस्मात्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदिश्यते ॥ २० ॥

सूत्रं व्याचष्टे

य एष इति ।

यद्यप्येकस्मिन्वाक्ये प्रथमश्रुतानुसारेण चरमं नेयम् , तथाप्यत्र प्रथमं श्रुतं रूपवत्वं निष्फलम् , ध्यानार्थमीश्वरे नेतुं शक्यं च । सर्वपाप्मासङ्गित्वं सर्वात्मैकत्वं तु सफलम् , जीवे नेतुमशक्यञ्चेति प्रबलम् ।

नच 'न ह वै देवान्पापं गच्छति' इति श्रुतेरादित्यजीवस्यापि पाप्मास्पर्शित्वमिति वाच्यम् । श्रुतेरधुना कर्मानधिकारिणां देवानां क्रियमाणपाप्मासंम्बन्धे तत्फलास्पर्शे वा तात्पर्यात् , तेषां सञ्चितपापाभावे 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इत्ययोगादित्यभिप्रेत्याह

सर्वपाप्मापगमश्च परमात्मन एवेति ।

सार्वात्म्यमाह

तथेति ।

अत्र तच्छब्दैश्चाक्षुषः पुरुष उच्यते । ऋगाद्यपेक्षया लिङ्गव्यत्ययः । उक्थं शस्त्रविशेषः, तत्साहचर्यात्साम स्तोत्रम् , उक्थादन्यच्छस्त्रमृगुच्यते, यजुर्वेदो यजुः, ब्रह्म त्रयो वेदा इत्यर्थः ।

पृथिव्याग्न्याद्यात्मक इति ।

आधिदैवतमृक्पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा पञ्चविधा श्रुत्युक्ता, साम चाग्निवाय्वादित्यचन्द्रादित्यगतातिकृष्णरूपमुक्तं पञ्चविधम् । अध्यात्मं तु ऋक् , वाक्चक्षुःश्रोत्राक्षिस्थशुक्लभारूपा चतुर्विधा, साम च प्राणच्छायात्ममनोऽक्षिगतातिनीलरूपं चतुर्विधमुक्तम् ।

एवं क्रमेण ऋक्सामे अनुक्रम्याह

श्रुतिःतस्येति ।

यौ सर्वात्मकर्क्सामात्मकौ गेष्णावमुष्यादित्यस्थस्य, तावेवाक्षिस्थस्य गेष्णौ पर्वणीत्यर्थः ।

तच्चेति ।

ऋत्क्सामगेष्णत्वमित्यर्थः ।

सर्वगानगेयत्वं लिङ्गान्तरमाह

तद्य इति ।

तत्तत्र लोके, धनस्य सनिर्लाभो येषां ते धनसनयः, विभूतिमन्त इत्यर्थः ।

ननु लोके राजानो गीयन्ते नेश्वर इत्यत आह

यद्यदिति ।

पशुवित्तादिर्विभूतिः, श्रीः कान्तिः, ऊर्जितत्वं बलम् , तद्युक्तं सत्वं राजादिकं मदंश एवेति तद्गानमीश्वरस्यैवेत्यर्थः । निरङ्गुशमनन्याधीनम् । एषा विचित्ररूपा मूर्तिर्मायाविकृतित्वान्माया मया सृष्टेत्यर्थः ।

तदुक्तम् 'अशब्दम्' इत्यादिवाक्यं तंज्ञेयपरमित्याह

अपिचेति ।

तर्हि रूपं कुतः, तत्राह

सर्वेति ।

यत्र तूपास्यत्वेनोच्यते तत्रेत्यध्याहृत्य सर्वकारणत्वात्प्राप्तरूपवत्वं 'सर्वकर्मा' इत्यादिश्रुत्या निर्दिश्यत इति योजना ।

मर्यादावदैश्वर्यमीश्वरस्य नेत्युक्तं निराकरोति

ऐश्वर्येति ।

अध्यात्माधिदैवतध्यानयोर्विभागः पृथक्प्रयोगस्तदपेक्षमेव, नत्वैश्वर्यस्य परिच्छेदार्थमित्यर्थः ॥ २० ॥