ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
भेदव्यपदेशाच्चान्यः ॥ २१ ॥
अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी आदित्ये तिष्ठन्नादित्यादन्तरो मादित्यो वेद स्यादित्यः शरीरं आदित्यमन्तरो यमयत्येष आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ९) इति श्रुत्यन्तरे भेदव्यपदेशात्तत्र हिआदित्यादन्तरो यमादित्यो वेदइति वेदितुरादित्याद्विज्ञानात्मनोऽन्योऽन्तर्यामी स्पष्टं निर्दिश्यते एवेहाप्यन्तरादित्ये पुरुषो भवितुमर्हति, श्रुतिसामान्यात्तस्मात्परमेश्वर एवेहोपदिश्यत इति सिद्धम् ॥ २१ ॥

ननु उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणोर्व्रीह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्क्याह

भेदेति ।

आदित्यजीवादीश्वरस्य भेदोक्तेः श्रुत्यन्तरे जीवादन्य ईश्वरः सिद्ध इति सूत्रार्थमाह

अस्तीति ।

आदित्ये स्थितरश्मिनिरासार्थमादित्यादन्तर इति जीवं निरस्यति

यमिति ।

अशरीरस्य कथं नियन्तृत्वम् , तत्राह

यस्येति ।

अन्तर्यामिपदार्थमाह

य इति ।

तस्यानात्मत्वनिरासायाह

एष त इति ।

ते तव स्वरूपमित्यर्थः । आदित्यान्तरत्वश्रुतेः समानत्वादित्यर्थः । तस्मात्पर एवादित्यादिस्थानक उद्गीथे उपास्य इति सिद्धम् ॥ २१ ॥