भवन्तीति भूतानीति व्युत्पत्या यत्किञ्चिद्भवनधर्मकं कार्यमात्रम् , तस्य लयोदयौ वायुविकारे प्राणे न युक्तावित्युक्त्वा भूतशब्दस्य रूढार्थग्रहेऽपि लयादेर्ब्रह्मनिर्णायकत्वमित्याह
यदापीति ।
भैतिकप्राणस्य भूतयोनित्वायोगादित्यर्थः ।
तस्य तद्योनित्वं श्रुत्याशङ्कते
नन्विति ।
अथ यदा सुषुप्तो जीवः प्राणे ब्रह्मण्येकीभवति तदा एनं प्राणं सविषयवागादयोऽपियन्तीत्यर्थः ।
अत्र जीवाभिन्नत्वे सर्वलयाधारत्वलिङ्गान्न मुख्यः प्राण इत्याह
तत्रापीति ।
वाक्यान्तरसंनिध्यपेक्षया स्ववाक्यगतंलिङ्गं बलीय इत्याह
तदयुक्तमिति ।
एकवाक्यत्वं वाक्यशेषः तस्य बलं तद्गतं लिङ्गं तेनेत्यर्थः ।
प्राणमेवेत्यवधारणेन सर्वभूतप्रकृतित्वलिङ्गेन च प्राणपदेन तत्कारणं ब्रह्म लक्ष्यमित्याह
तदाकाशशब्दस्येवेति ।