ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अत एव प्राणः ॥ २३ ॥
‘अत एव प्राणः’ इति । तल्लिङ्गादिति पूर्वसूत्रे निर्दिष्टम् । अत एव तल्लिङ्गात्प्राणशब्दमपि परं ब्रह्म भवितुमर्हति । प्राणस्यापि हि ब्रह्मलिङ्गसम्बन्धः श्रूयते — ‘सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते’ (छा. उ. १ । ११ । ५) इति । प्राणनिमित्तौ सर्वेषां भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः । ननूक्तं मुख्यप्राणपरिग्रहेऽपि संवेशनोद्गमनदर्शनमविरुद्धम् , स्वापप्रबोधयोर्दर्शनादिति । अत्रोच्यते — स्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते, न सर्वेषां भूतानाम् । इह तु सेन्द्रियाणां सशरीराणां च जीवाविष्टानां भूतानाम् , ‘सर्वाणि ह वा इमानि भूतानि’ इति श्रुतेः । यदापि भूतश्रुतिर्महाभूतविषया परिगृह्यते, तदापि ब्रह्मलिङ्गत्वमविरुद्धम् । ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबोधयोः प्राणेऽप्ययं प्राणाच्च प्रभवं शृणुमः — ‘यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति’ (कौ. उ. ३ । ३) इति । तत्रापि तल्लिङ्गात्प्राणशब्दं ब्रह्मैव । यत्पुनरुक्तमन्नादित्यसन्निधानात्प्राणस्याब्रह्मत्वमिति, तदयुक्तम् । वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतायां प्रतीयमानायां सन्निधानस्याकिञ्चित्करत्वात् । यत्पुनः प्राणशब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वम् , तदाकाशशब्दस्येव प्रतिविधेयम् । तस्मात्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम् ॥

भवन्तीति भूतानीति व्युत्पत्या यत्किञ्चिद्भवनधर्मकं कार्यमात्रम् , तस्य लयोदयौ वायुविकारे प्राणे न युक्तावित्युक्त्वा भूतशब्दस्य रूढार्थग्रहेऽपि लयादेर्ब्रह्मनिर्णायकत्वमित्याह

यदापीति ।

भैतिकप्राणस्य भूतयोनित्वायोगादित्यर्थः ।

तस्य तद्योनित्वं श्रुत्याशङ्कते

नन्विति ।

अथ यदा सुषुप्तो जीवः प्राणे ब्रह्मण्येकीभवति तदा एनं प्राणं सविषयवागादयोऽपियन्तीत्यर्थः ।

अत्र जीवाभिन्नत्वे सर्वलयाधारत्वलिङ्गान्न मुख्यः प्राण इत्याह

तत्रापीति ।

वाक्यान्तरसंनिध्यपेक्षया स्ववाक्यगतंलिङ्गं बलीय इत्याह

तदयुक्तमिति ।

एकवाक्यत्वं वाक्यशेषः तस्य बलं तद्गतं लिङ्गं तेनेत्यर्थः ।

प्राणमेवेत्यवधारणेन सर्वभूतप्रकृतित्वलिङ्गेन च प्राणपदेन तत्कारणं ब्रह्म लक्ष्यमित्याह

तदाकाशशब्दस्येवेति ।