ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
ज्योतिश्चरणाभिधानात् ॥ २४ ॥
ज्योतिरिह ब्रह्म ग्राह्यम् । कुतः ? चरणाभिधानात् , पादाभिधानादित्यर्थः । पूर्वस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम् — ‘तावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इत्यनेन मन्त्रेण । तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादमृतं द्युसम्बन्धिरूपं निर्दिष्टम् , तदेवेह द्युसम्बन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् । न केवलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः; परस्यामपि शाण्डिल्यविद्यायामनुवर्तिष्यते ब्रह्म । तस्मादिह ज्येतिरिति ब्रह्म प्रतिपत्तव्यम् । यत्तूक्तम् — ‘ज्योतिर्दीप्यते’ इति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति, नायं दोषः; प्रकरणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात् , दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसम्भवात्; ‘येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३ । १२ । ९ । ७) इति च मन्त्रवर्णात् । यद्वा, नायं ज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते, अन्यत्रापि प्रयोगदर्शनात् — ‘वाचैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ५) ‘मनो ज्योतिर्जुषताम्’ (तै. ब्रा. १ । ६ । ३ । ३) इति च । तस्माद्यद्यत्कस्यचिदवभासकं तत्तज्ज्योतिःशब्देनाभिधीयते । तथा सति ब्रह्मणोऽपि चैतन्यरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिःशब्दः । ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (क. उ. २ । २ । १५) ‘तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ (बृ. उ. ४ । ४ । १६) इत्यादिश्रुतिभ्यश्च । यदप्युक्तं द्युमर्यादत्वं सर्वगतस्य ब्रह्मणो नोपपद्यत इति, अत्रोच्यते — सर्वगतस्यापि ब्रह्मण उपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते । ननूक्तं निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति; नायं दोषः, निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसम्बन्धात्प्रदेशविशेषकल्पनोपपत्तेः । तथा हि — आदित्ये, चक्षुषि, हृदये इति प्रदेशविशेषसम्बन्धीनि ब्रह्मणः उपासनानि श्रूयन्ते । एतेन ‘विश्वतः पृष्ठेषु’ इत्याधारबहुत्वमुपपादितम् । यदप्येतदुक्तम् औष्ण्यघोषानुमिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात्परमपि दिवः कार्यं ज्योतिरेवेति, तदप्ययुक्तम्; परस्यापि ब्रह्मणो नामादिप्रतीकत्ववत्कौक्षेयज्योतिष्प्रतीकत्वोपपत्तेः । ‘दृष्टं च श्रुतं चेत्युपासीत’ इति तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वं च भविष्यति । यदप्युक्तमल्पफलश्रवणात् न ब्रह्मेति, तदप्यनुपपन्नम्; न हि इयते फलाय ब्रह्माश्रयणीयम् , इयते न इति नियमे हेतुरस्ति । यत्र हि निरस्तसर्वविशेषसम्बन्धं परं ब्रह्मात्मत्वेनोपदिश्यते, तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यते । यत्र तु गुणविशेषसम्बन्धं प्रतीकविशेषसम्बन्धं वा ब्रह्मोपदिश्यते, तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्ते — ‘अन्नादो वसुदानो विन्दते वसु य एवं वेद’ (बृ. उ. ४ । ४ । २४) इत्याद्यासु श्रुतिषु । यद्यपि न स्ववाक्ये किञ्चिज्ज्योतिषो ब्रह्मलिङ्गमस्ति, तथापि पूर्वस्मिन्वाक्ये दृश्यमानं ग्रहीतव्यं भवति । तदुक्तं सूत्रकारेण — ज्योतिश्चरणाभिधानादिति । कथं पुनर्वाक्यान्तरगतेन ब्रह्मसन्निधानेन ज्योतिःश्रुतिः स्वविषयात् शक्या प्रच्यावयितुम् ? नैष दोषः, ‘अथ यदतः परो दिवो ज्योतिः’ इति प्रथमतरपठितेन यच्छब्देन सर्वनाम्ना द्युसम्बन्धात्प्रत्यभिज्ञायमाने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामर्थ्येन परामृष्टे सत्यर्थाज्ज्योतिःशब्दस्यापि ब्रह्मविषयत्वोपपत्तेः । तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् ॥ २४ ॥

आचारं निरस्यति

पादेति ।

'गायत्री वा इदं सर्वं भूतम्' 'वाग्वै गायत्री' 'येयं पृथिवी' 'यदिदं शरीरम्' 'यदस्मिन्पुरुषे हृदयम्' 'इमे प्राणाः' इति भूतवाक्पृथिवीशरीरहृदयप्राणात्मिका षड्विधा षड्भिरक्षरैश्चतुष्पदा गायत्रीति । यदुक्तं तावान् तत्परिमाणः सर्वः प्रपञ्चोऽस्य गायत्र्यनुगतस्य ब्रह्मणो महिमा विभूतिः, पुरुषस्तु पूर्णब्रह्मरूपः, अतः प्रपञ्चाज्ज्यायानधिकः ।

आधिक्यमेवाह

पाद इति ।

सर्वं जगदेकः पादोऽंशः, 'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' इति स्मृतेः । अस्य पुरुषस्य दिवि स्वप्रकाशस्वरूपे त्रिपादमृतं रूपमस्ति, दिवि सूर्यमण्डले वा ध्यनार्थमस्ति, कल्पिताज्जगतो ब्रह्मस्वरूपामनन्तमस्तीत्यर्थः । यथा लोके पादात्पादत्रयमधिकं तथेदमधिकमिति बोधनार्थं त्रिपादमृतमित्युक्तम् , न त्रिपादत्वं विवक्षितमिति मन्तव्यम् ।

'यदतः परः' इति यच्छब्दस्य प्रसिद्धार्थवाचित्वात्पूर्ववाक्यप्रसिद्धं ब्रह्म ग्राह्ममित्याह

तत्रेति ।

ननु 'यदाग्नेयोऽष्टाकपालः' इत्यत्र यत्पदस्याप्रकृतार्थकत्वं दृष्टमित्यत आह

तत्परित्यज्येति ।

तत्र यागस्यान्यतः प्रसिद्धेरभावेनापूर्वत्वादगत्या यदोऽप्रसिद्धार्थत्वमाश्रितम् । इह तु पूर्ववाक्यप्रसिद्धस्य ब्रह्मणो द्युसम्बन्धेन प्रत्यभिज्ञातस्य यदर्थत्वनिश्चयाद्यत्पदैकार्थकज्योतिःपदस्यापि स एवार्थ इत्यर्थः ।

सन्दंशन्यायादप्येवमित्याह

न केवलमिति ।

'सर्वं खल्विदं ब्रह्म' इत्युत्तरत्र ब्रह्मानुवृत्तेर्मध्यस्थं ज्योतिर्वाक्यं ब्रह्मपरमित्यर्थः ।

प्रकरणादिति ।

प्रकृतापेक्षयत्पदश्रुत्या द्युसम्बन्धभूतपादत्वादिलिङ्गैश्चेत्यर्थः । अतः प्रकरणाज्ज्योतिःश्रुतिबाधो न युक्त इति निरस्तम् ।

अविशेषकत्वादिति ।

ब्रह्मव्यावर्तकत्वाभावादित्यर्थः । येन चेतसा चैतन्येनेद्धः प्रकाशितः सूर्यस्तपति प्रकाशयति तं बृहन्तमवेदविन्न मनुत इत्यर्थः ।

ज्योतिःशब्दस्य कार्यज्योतिष्येव शक्तिरित्यङ्गीकृत्य कारणब्रह्मलक्षकत्वमुक्त्वा ब्रह्मण्यपि शक्तिमाह

यद्वेति ।

गाढान्धकारे वाचैव ज्योतिषा लोक आसनादिव्यवहारं करोतीत्यर्थः । आज्यं जुषतां पिबतां मनो ज्योतिः प्रकाशकं भवति इत्याज्यस्तुतिः ।

यथा गच्छन्तमनुगच्छतः स्वस्यापि गतिरस्ति तथा सर्वस्य स्वनिष्ठं भानं स्यादित्यत आह

तस्य भासेति ।

तत्कालानवच्छिन्नं ब्रह्म सूर्यादिज्योतिषां साक्षिभूतमायुरमृतमिति च देवा उपासत इत्यर्थः ।

योषितोऽग्नित्ववत्द्युमर्यादत्वादिकं ध्यानार्थं कल्पितं ब्रह्मणो युक्तमित्याह

अत्रोच्यत इत्यादिना ।

दिवः परमपीत्यन्वयः ।

आरोप्यस्य ध्येयस्यालम्बनस्य च सादृश्यनियमो नास्तीत्याह

परस्यापीति ।

भविष्यति ब्रह्मज्योतिष इति शेषः ।

'तं यथा यथोपासते तथा तथा फलं भवति' इति श्रुतेरित्याह

न हीयत इति ।

ज्ञानफलवदुपास्तिफलमेकरूपं किं न स्यादत आह

यत्र हीति ।

ज्ञेयैकत्वादित्यर्थः ।

ध्येयं तु नानेत्याह

यत्र त्विति ।

ईश्वरो जीवरूपेणान्नमत्तीत्यन्नादः अन्नस्यासमन्ताद्दाता वा वसु हिरण्यं ददातीति वसुदान इति गुणविशेषसम्बन्धं यो वेद स धनं विन्दते, दीप्ताग्निश्च भवति । नाम्नो वागुत्तमा, मनो वा प्रतीकं वाचो भूय इति प्रतीकविशेषध्यानश्रुतिसङ्ग्रहार्थमाद्यपदम् ।

संनिधेः श्रुतिर्बलीयसीति शङ्कते

कथं पुनरिति ।

अथ प्रथमश्रुत्यनुसारेण चरमश्रुतिर्नीयत इत्याह

नैष इति ।

सर्वनाम्ना स्वसामर्थ्येन स्वस्य सर्वनाम्नः सामर्थ्यं संनिहितवाचित्वं तद्बलेन परामृष्टे सतीति योजना । अर्थाद्यत्पदसामानाधिकरण्यादित्यर्थः ॥ २४ ॥