ननु 'गायत्री वा इदं सर्वम्' इति प्रथम गायत्रीश्रुतेः कथं लक्षणेत्याशङ्क्य वाक्यशेषगतसर्वात्मकत्वाद्यनेकबलवत्प्रमाणसंवादेन ब्रह्मणि तात्पर्यावगमादित्याह
भूतादिपादेति ।
एवं पदार्थमाह
इतश्चेति ।
सूत्रस्थादिपदार्थं दर्शयति
भूतपृथिवीति ।
अत्र सूत्रभाष्यकारयोर्भूतादिभिश्चतुष्पदा गायत्रीति संमतम् , षडक्षरैश्चतुष्पात्वं वृत्तिकारोक्तमप्रसिद्धं चकारसूचितम् ।
युक्त्यन्तरमाह
अपि चेति ।
ब्रह्मपरसूक्तोत्पन्नत्वाच्च तस्यास्तत्परत्वमित्याह
पुरुषेति ।
ब्रह्मपदस्य छन्दोवाचित्वमुक्तं निरस्यति
यद्वै तद्ब्रह्मेति ।
पूर्वस्यामृचि ब्रह्मोक्तावित्यर्थः ।
हृदयस्य चतुर्दिक्षूर्ध्वं च पञ्च सुषयः सन्ति । तेषु ब्रह्मस्थानहृन्नगरस्य प्रागादिद्वारेषु क्रमेण प्राणव्यानापानसमानोदानाः पञ्चद्वारपाला इति ध्यानार्थं श्रुत्या कल्पितम् । तत्र हृदयच्छिद्रस्थप्राणेषु ब्रह्मपुरुषत्वश्रुतिर्हृदि गायत्र्याख्यब्राह्मण उपासनासम्बन्धितायां ब्रह्मणो द्वारपालत्वाद्ब्रह्मपुरुषा इति सम्भवतीत्याह
पञ्च ब्रह्मेति ॥ २६ ॥