ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्राणस्तथानुगमात् ॥ २८ ॥
अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिका — ‘प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च’ (कौ. उ. ३ । १) इत्यारभ्याम्नाता । तस्यां श्रूयते — ‘स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व’ (कौ. उ. ३ । २) इति । तथोत्तरत्रापि — ‘अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ (कौ. उ. ३ । ३) इति । तथा ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इति । अन्ते च ‘स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः’ (कौ. उ. ३ । ९) इत्यादि । तत्र संशयः — किमिह प्राणशब्देन वायुमात्रमभिधीयते, उत देवतात्मा, उत जीवः, अथवा परं ब्रह्मेति । ननु ‘अत एव प्राणः’ इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम् । इहापि च ब्रह्मलिङ्गमस्ति — ‘आनन्दोऽजरोऽमृतः’ इत्यादि । कथमिह पुनः संशयः सम्भवति ? — अनेकलिङ्गदर्शनादिति ब्रूमः । न केवलमिह ब्रह्मलिङ्गमेवोपलभ्यते । सन्ति हीतरलिङ्गान्यपि — ‘मामेव विजानीहि’ (कौ. उ. ३ । १) इतीन्द्रस्य वचनं देवतात्मलिङ्गम् । ‘इदं शरीरं परिगृह्योत्थापयति’ इति प्राणलिङ्गम् । ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इत्यादि जीवलिङ्गम् । अत उपपन्नः संशयः । तत्र प्रसिद्धेर्वायुः प्राण इति प्राप्ते उच्यते —

प्राणस्तथानुगमात् ।

दिवोदासस्यापत्यं दैवोदासिः प्रतर्दनो नाम राजा युद्धेन पुरुषकारेण च कारणेनेन्द्रस्य प्रेमास्पदं गृहं जगाम । तं ह इन्द्र उवाच, प्रतर्दन वरं ते ददानीति । स होवाच प्रतर्दनः, यं त्वं मर्त्याय हिततमं मन्यसे तं वरं त्वमेवालोच्य मह्यं देहीति । तत इन्द्र इदमाह 'प्राणोऽस्मि' इत्यादि । मुख्यं प्राणं निरसितुं प्रज्ञात्मत्वमुक्तम् ।

निर्विशेषचिन्मात्रं निरस्यति

तं मामिति ।

इदं प्राणस्येन्द्रदेवतात्वे लिङ्गम् ।

मुख्यप्राणत्वे लिङ्गमाह

अथेति ।

वागादीनां देहधारणशक्त्यभावनिश्चयानन्तरमित्यर्थः ।

प्राणस्य देहधारकत्वमुत्थापकत्वं च प्रसिद्धमिति वक्तुं खल्वित्युक्तम् । प्राणस्य जीवत्वे वक्तृत्वं लिङ्गमाह

न वाचमिति ।

आनन्दत्वादिकं ब्रह्मलिङ्गमाह

अन्ते चेति ।

अनेकेषु लिङ्गेषु दृश्यमानेषु बलाबलनिर्णयार्थमिदमधिकरणममित्यगतार्थमाह

अनेकलिङ्गेति ।

पूवर्त्र प्रकृतब्रह्मवाचकयच्छब्दबलाज्ज्योतिःश्रुतिःब्रह्मपरेत्युक्तम् , न तथेह प्राणश्रुतिभङ्गे किञ्चिद्बलमस्ति, मिथो विरुद्धानेकलिङ्गानामनिश्चायकत्वादिति प्रत्युदाहरणसङ्गत्या पूर्वपक्षयति

तत्रेति ।

पूर्वं प्रधानप्रातिपदिकार्थबलात्विभक्त्यर्थबाधवद्वाक्यार्थज्ञानं प्रति हेतुत्वेन प्रधानानेकपदार्थबलादेकवाक्यताभङ्ग इति दृष्टान्तसङ्गतिर्वास्तु । पूर्वपक्षे प्राणाद्यनेकोपास्तिः, सिद्धान्ते प्रत्यग्ब्रह्मधीरिति विवेकः ।