ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥
इन्द्रो नाम देवतात्मा स्वमात्मानं परमात्मत्वेन ‘अहमेव परं ब्रह्म’ इत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन् उपदिशति स्म — ‘मामेव विजानीहि’ इति । यथा ‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्च’ इति, तद्वत्; ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्’ (बृ. उ. १ । ४ । १०) इति श्रुतेः । यत्पुनरुक्तम् — ‘मामेव विजानीहि’ इत्युक्त्वा, विग्रहधर्मैरिन्द्रः आत्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति, तत्परिहर्तव्यम्; अत्रोच्यते — न त्वाष्ट्रवधादीनां विज्ञेयेन्द्रस्तुत्यर्थत्वेनोपन्यासः — ‘यस्मादेवंकर्माहम् , तस्मान्मां विजानीहि’ इति । कथं तर्हि ? विज्ञानस्तुत्यर्थत्वेन; यत्कारणं त्वाष्ट्रवधादीनि साहसान्युपन्यस्य परेण विज्ञानस्तुतिमनुसन्दधाति — ‘तस्य मे तत्र लोम च न मीयते स यो मां वेद न ह वै तस्य केन च कर्मणा लोको मीयते’ इत्यादिना । एतदुक्तं भवति — यस्मादीदृशान्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापि न हिंस्यते, स योऽन्योऽपि मां वेद, न तस्य केनचिदपि कर्मणा लोको हिंस्यत इति । विज्ञेयं तु ब्रह्मैव ‘प्राणोऽस्मि प्रज्ञात्मा’ इति वक्ष्यमाणम् । तस्माद्ब्रह्मवाक्यमेतत् ॥ ३० ॥

सूत्रमुत्तरम् । तद्व्याख्याति

इन्द्र इति ।

जन्मान्तरकृतश्रवणादिना अस्मिञ्जन्मनि स्वतःसिद्धं दर्शनमार्षम् । विज्ञेयेन्द्रस्तुत्यर्थ उपन्यासो न चेत्कथं तर्हि स इति पृच्छति

कथमिति ।

ब्रह्मज्ञानस्तुत्यर्थः स इत्याह

विज्ञानेति ।

नियामकं ब्रूते

यदिति ।

परेण ।

'तस्य मे' इत्यादिना वाक्येनेत्यन्वयः ।

स्तुतिमाह

एतदुक्तमिति ।

तस्माज्ज्ञानं श्रेष्ठमिति शेषः ।

स्तुतज्ञानविषय इन्द्र इत्यत आह

विज्ञेयं त्विति ॥ ३० ॥