देहोत्थापनं जीवलिङ्गं किं न स्यात् , तत्राह
शरीरधारणं चेति ।
सर्वे वागादयः प्राणा अहमहं श्रेष्ठ इति विवदमानाः प्रजापतिमुपजग्मुः । स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरं पतिष्यति स वः श्रेष्ठ इति तथाक्रमेण वागादिषूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यप्राणस्य तु उच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्तौ तान्वागादीन्वरिष्ठः प्राण उवाच, यूयं मोहं मापद्यथ यतोऽहमेवैतत्करोमि । किं तत् , पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्य धारयामीत्यर्थः ।
द्विवचनसहवासोत्क्रान्तिश्रुतेश्च न ब्रह्म ग्राह्यमित्याह
जीवमुख्येति ।
अभेदनिर्देशमाह
यो वा इति ।
भेदमाह
सहेति ।
यदि जीवमुख्यप्राणयोर्लिङ्गादुपास्यत्वं तर्हि ब्रह्मणोऽपि लिङ्गानामुक्तत्वादुपासनं स्यात् । न चेष्टापत्तिः । उपक्रमादिन निश्चितैकवाक्यताभङ्गप्रसङ्गादित्याह
नैतदेवमित्यादिना ।
नच स्वतन्त्रपदार्थभेदाद्वाक्यभेदः किं न स्यादिति वाच्यम् , जीवमुख्यप्राणयोरुक्तलिङ्गानां ब्रह्मणिनेतुं शक्यतया स्वातन्त्र्यासिद्धेः, अफलपदार्थस्य फलवद्वाक्यार्थशेषत्वेन प्रधानवाक्यार्थानुसारेण तल्लिङ्गनयस्योचितत्वाच्च । नहि प्रधानवाक्यार्थब्रह्मलिङ्गमन्यथा नेतुं शक्यम् , न वा तदुचितमित्याह
नच ब्रह्मलिङ्गमिति ।
सूत्रशेषं व्याचष्टे
आश्रितत्वाच्चेति ।
अन्यत्र 'अत एव प्राणः' इत्यादौ वृत्तेराश्रितत्वादिहापि तस्य ब्रह्मलिङ्गस्य योगाद्ब्रह्मपर एव प्राणशब्द इत्यर्थः ।
प्राणादिलिङ्गानि सर्वात्मके ब्रह्मण्यनायासेन नेतुं शक्यनीत्याह
यत्त्वित्यादिना ।
यस्मिन्नेतौ प्रेर्यत्वेन स्थितौ तेनेतरेण ब्रह्मणा सर्वे प्राणादिव्यापारं कुर्वन्तीत्यर्थः । विशेषं परिच्छेदाभिमानमित्यर्थः ।
'वक्तारं विद्यात्' इति न वक्तुर्ज्ञेयत्वमुच्यते, तस्य लोकसिद्धत्वात् , किन्तु तस्य ब्रह्मत्वं बोध्यते । तद्बोधाभिमुख्याय लिङ्गादय इत्यत्र श्रुत्यन्तरमाह
यद्वाचेति ।
येन चैतन्येन वागभ्युद्यते स्वकार्याभिमुख्येन प्रेर्यते तदेव वागादिरगम्यं ब्रह्मेत्यर्थः ।
तत्त्वम्पदवाच्ययोः स्वरूपतो भेदस्ताभ्यामुपलक्ष्यात्मस्वरूपाभेदादेकत्वं निर्दिश्यत इत्याह
नैष दोष इति ।