छान्दोग्यवाक्यमुदाहरति
इदमिति ।
तस्माज्जायत इति तज्जम् , तस्मिंल्लीयत इति तल्लम् , तस्मिन्ननिति चेष्टत इति तदनम् , तज्जं च तल्लं च तदनं चेति तज्जलान् । कर्मधारयेऽस्मिन् शाकपार्थिवन्यायेन मध्यमपदस्य तच्छब्दस्य लोपः । तज्जलानमिति वाच्ये छान्दसोऽवयवलोपः । इतिशब्दो हेतौ । सर्वमिदं जगद्ब्रह्मैव, तद्विवर्तत्वादित्यर्थः ।
ब्रह्मणि मित्रामित्रभेदाभावाच्छान्तो रागादिरहितो भवेदिति गुणविधिः । सक्रतुमुपासनं कुर्वीतेति विहितोपासनस्य 'उपासीत' इत्यनुवादात्फलमाह
अथेति ।
क्रतुमयः सङ्कल्पविकार इत्यर्थः ।
पुरुषस्य ध्यानविकारत्वं स्फुटयति
यथेति ।
इह यध्यायति, मृत्वा ध्यानमहिम्ना तध्येयरूपेण जायत इत्यर्थः । क्रतुमयः सङ्कल्पप्रधान इति वार्थः ।
क्रतोर्विषयमाह
मन इति ।
ब्रह्मेत्युपक्रमान्मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमन्तर्ह्रदये ध्येयमित्यर्थः ।
पूर्वत्र ब्रह्मलिङ्गैरब्रह्मलिङ्गबाध उक्तः, न तथेहोपक्रमे ब्रह्मणो लिङ्गमस्ति, किन्तु प्रकरणम् । तच्च शान्तिगुणविधानार्थमन्यथासिद्वम् । अतो जीवलिङ्गं बलीय इति प्रत्युदाहरणेन पूर्वपक्षयति
शारीर इत्यादिना ।
श्रुतिमाशङ्क्यान्यथासिद्ध्या परिहरति
नैष दोष इति ।
शमविधिपरत्वे हेतुमाह
यत्कारणमिति ।
यत एवमाह तस्माच्छमविधिपरमित्यन्वयः । [अत्रेदंशब्दः प्रकृतब्रह्मपरामर्शार्थो नतु जगत्परामर्शार्थः, जगद्विशेषणे प्रयोजनाभावात् । अत्र प्रयोजनाभावेऽपि यत्र प्रयोजनं तत्र भवत्येव जगद्विशेषणम् , यथा 'आत्मैवेदं सर्वम्' । अत्र बाधायां समानाधिकरणदार्ढ्यार्थं विशेषणमावश्यकम् , तद्वाक्यस्य ज्ञेयब्रह्मविषयत्वात् । अत्र तूपासनायां बाधानावश्यकत्वाद्विषयाभेदेन ब्रह्मण उपास्यत्वात् । ]
नच शमेति ।
शमध्यानयोर्विधौ वाक्यभेदापत्तेरित्यर्थः ।
जन्मपरम्परया जीवस्यापि सर्वकर्मत्वादिसम्भवमाह
सर्वकर्मेति ।
सर्वाणि कर्माणि यस्य । सर्वे कामा भोग्या यस्य । सर्वगन्धः सर्वरस इत्यादिरादिशब्दार्थः ।
आराग्रमात्रस्येति ।
तोत्रप्रोतायःशलाकाग्रपरिमाणस्येत्यर्थः ।