वस्तुनो विवक्षायाः फलमुपादानं स्वीकारः, स च प्रकृतेषु गुणेष्वस्तीति विवक्षोपचार इत्याह
तथाप्युपादानेनेति ।
नन्विदं ग्राह्यमिदं त्याज्यमिति धीर्विवक्षाधीना वेदे कुतः स्यादित्यत आह
उपादानानुपादाने त्विति ।
तात्पर्यं नाम फलवदर्थप्रतीत्यनुकूलत्वं शब्दधर्मः । उपक्रमादिना तस्य ज्ञानात्तयोरवगम इत्यर्थः ।
तदिहेति ।
तत्तस्मात् । तात्पर्यवत्त्वादित्यर्थः ।
सर्वात्मत्वे प्रमाणमाह
तथाचेति ।
जीर्णः स्थविरो यो दण्डेन वञ्चति गच्छति सोऽपि त्वमेव । यो जातो बालः स त्वमेव । सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्येति सर्वतः श्रुतिमत् । सर्वजन्तूनां प्रसिद्वाः पाण्यादयस्तस्येति सर्वात्मत्वोक्तिः ॥ २ ॥