ननु जीवधर्माःश्चेत्ब्रह्मणि योज्यन्ते तर्हि ब्रह्मधर्मा एव जीवे किमिति न योज्यन्ते, तत्राह
अनुपपत्तेरिति ।
सूत्रं व्याचष्टे
पूर्वेणेति ।
सर्वात्मत्वादिरूक्तन्यायः । कल्पितस्य धर्मा अधिष्ठाने सम्बध्यन्ते, नाधिष्ठानधर्माः कल्पित इति भावः । अधिष्ठानज्ञानकाले कल्पितधर्माभावात् । वागेव वाकः सोऽस्यास्तीति वाकी, न वाकी अवाकी । अनिन्द्रिय इत्यर्थः । कुत्राप्यादरः कामोऽस्य नास्तीत्यनादरः । नित्यतृप्त इत्यर्थः ।
ज्यायस्त्वाद्यनुपपत्तौ शारीर इति परिच्छेदो हेतुः सूत्रोक्तः । स तु जीवस्यैव नोश्वरस्येत्याह
सत्यमित्यादिना ॥ ३ ॥