मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः
द्वितीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भाष्यरत्नप्रभाव्याख्या
कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
इतश्च
न
शारीरो
मनोमयत्वादिगुणः
;
यस्मात्कर्मकर्तृव्यपदेशो
भवति
—
‘
एतमितः
प्रेत्याभिसम्भवितास्मि
’ (छा. उ. ३ । १४ । ४)
इति
।
एतमिति
प्रकृतं
मनोमयत्वादिगुणमुपास्यमात्मानं
कर्मत्वेन
प्राप्यत्वेन
व्यपदिशति
;
अभिसम्भवितास्मीति
शारीरमुपासकं
कर्तृत्वेन
प्रापकत्वेन
।
अभिसम्भवितास्मीति
प्राप्तास्मीत्यर्थः
।
न
च
सत्यां
गतावेकस्य
कर्मकर्तृव्यपदेशो
युक्तः
।
तथोपा
स्यो
पासकभावोऽपि
भेदाधिष्ठान
एव
।
तस्मादपि
न
शारीरो
मनोमयत्वादिविशिष्टः
॥ ४ ॥
तथोपास्येति ॥ ४ ॥
;
प्रापकत्वेन व्यपदिशतीति सम्बन्धः । कर्मकर्तृव्यपदेशपदस्यार्थान्तरमाह
तथोपास्येति ॥ ४ ॥