अर्भकमोको यस्य सोऽर्भकौकाः तस्य भावस्तत्त्वं तस्मादार्थिकमल्पत्वम् । अणीयानित्यल्पत्ववाचकशब्देनापि श्रुतमित्याह
स्वशब्देनेति ।
नायं दोष इत्युक्तं विवृणोति
न तावदिति ।
कथमपि ।
ब्रह्मभावापेक्षयापीत्यर्थः । परिच्छेदत्यागं विना ब्रह्मत्वासम्भवात्तत्त्यागे च ब्रह्मण एवोपास्यत्वमायातीति भावः ।
विभोः परिच्छेदोक्तौ दृष्टान्तमाह
यथा समस्येति ।
सर्वेश्वरस्यायोध्यायां स्थित्यपेक्षया परिच्छेदोक्तिवदल्पहृदि ध्येयत्वेन तथोक्तिरित्यर्थः ।
ननु किमिति हृदयमेव प्रायेणोच्यते, तत्राह
तत्रेति ।
हृदये परमात्मनो बुद्विवृत्तिरर्ग्राहिका भवति । अत ईश्वराभिव्यक्तिस्थानत्वात्तदुक्तिरित्यर्थः ।
व्योमदृष्टान्तासिना शङ्कालतापि काचिच्छिन्नेत्याह
तत्र यदाशङ्क्यत इत्यादिना ।
भिन्नायतनत्वेऽपि व्योम्नः सत्यभेदाद्यभावादिति भावः ॥ ७ ॥