ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
अर्भकमल्पम् ओको नीडम् , ‘एष म आत्मान्तर्हृदये’ इति परिच्छिन्नायतनत्वात् , स्वशब्देन च ‘अणीयान्व्रीहेर्वा यवाद्वा’ इत्यणीयस्त्वव्यपदेशात् , शारीर एवाराग्रमात्रो जीव इहोपदिश्यते, न सर्वगतः परमात्मा — इति यदुक्तं तत्परिहर्तव्यम् । अत्रोच्यते — नायं दोषः । न तावत्परिच्छिन्नदेशस्य सर्वगतत्वव्यपदेशः कथमप्युपपद्यते । सर्वगतस्य तु सर्वदेशेषु विद्यमानत्वात्परिच्छिन्नदेशव्यपदेशोऽपि कयाचिदपेक्षया सम्भवति । यथा समस्तवसुधाधिपतिरपि हि सन् अयोध्याधिपतिरिति व्यपदिश्यते । कया पुनरपेक्षया सर्वगतः सन्नीश्वरोऽर्भकौका अणीयांश्च व्यपदिश्यत इति । निचाय्यत्वादेवमिति ब्रूमः । एवम् अणीयस्त्वादिगुणगणोपेत ईश्वरः, तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते; यथा सालग्रामे हरिः । तत्रास्य बुद्धिविज्ञानं ग्राहकम् । सर्वगतोऽपीश्वरस्तत्रोपास्यमानः प्रसीदति । व्योमवच्चैतद्द्रष्टव्यम् । यथा सर्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षयार्भकौकोऽणीयश्च व्यपदिश्यते, एवं ब्रह्मापि । तदेवं निचाय्यत्वापेक्षं ब्रह्मणोऽर्भकौकस्त्वमणीयस्त्वं च, न पारमार्थिकम् । तत्र यदाशङ्क्यते — हृदयायतनत्वाद्ब्रह्मणो हृदयानां च प्रतिशरीरं भिन्नत्वाद्भिन्नायतनानां च शुकादीनामनेकत्वसावयवत्वानित्यत्वादिदोषदर्शनाद्ब्रह्मणोऽपि तत्प्रसङ्ग इति, तदपि परिहृतं भवति ॥ ७ ॥

अर्भकमोको यस्य सोऽर्भकौकाः तस्य भावस्तत्त्वं तस्मादार्थिकमल्पत्वम् । अणीयानित्यल्पत्ववाचकशब्देनापि श्रुतमित्याह

स्वशब्देनेति ।

नायं दोष इत्युक्तं विवृणोति

न तावदिति ।

कथमपि ।

ब्रह्मभावापेक्षयापीत्यर्थः । परिच्छेदत्यागं विना ब्रह्मत्वासम्भवात्तत्त्यागे च ब्रह्मण एवोपास्यत्वमायातीति भावः ।

विभोः परिच्छेदोक्तौ दृष्टान्तमाह

यथा समस्येति ।

सर्वेश्वरस्यायोध्यायां स्थित्यपेक्षया परिच्छेदोक्तिवदल्पहृदि ध्येयत्वेन तथोक्तिरित्यर्थः ।

ननु किमिति हृदयमेव प्रायेणोच्यते, तत्राह

तत्रेति ।

हृदये परमात्मनो बुद्विवृत्तिरर्ग्राहिका भवति । अत ईश्वराभिव्यक्तिस्थानत्वात्तदुक्तिरित्यर्थः ।

व्योमदृष्टान्तासिना शङ्कालतापि काचिच्छिन्नेत्याह

तत्र यदाशङ्क्यत इत्यादिना ।

भिन्नायतनत्वेऽपि व्योम्नः सत्यभेदाद्यभावादिति भावः ॥ ७ ॥