ब्रह्मणो हार्दत्वेऽनिष्टसम्भोगापत्तेर्जीव एव हार्द उपास्य इति शङ्कां व्याचष्टे
व्योमवदिति ।
ब्रह्म भोक्तृ स्यात्, हार्दत्वे सति चेतनत्वात् , जीवाभिन्नत्वाच्च जीववदित्युक्तं निरस्यति
न । वैशेष्यादिति ।
धर्माधर्मवत्त्वमुपाधिरित्यर्थः । अयमेव विशेषो वैशेष्यम् । स्वार्थे ष्यञ्प्रत्ययः । विशेषस्यातिशयार्थो वा । धर्मादेः स्वाश्रये फलहेतुत्वमतिशयः, तस्मादिति सूत्रार्थः ।
किञ्च विभवो बहव आत्मान इति वादिनामेकस्मिन्देहे सर्वात्मनां भोक्तृत्वप्रसङ्गः, स्वकर्मार्जित एव देहे भोग इति परिहारश्च तुल्य इति न वयं पर्यनुयोज्या इत्याह
सर्वगतेति ।
वस्तुतस्तेषामेव भोगसाङ्कर्यमित्यग्रे वक्ष्यते ।
ब्रह्मणो जीवाभिन्नत्वं श्रुत्या निश्चित्य तेन भोक्तृत्वानुमाने उपजीव्यश्रुतिबाधमाह
यथाशास्त्रमिति ।
अर्थं मुखमात्रं जरत्या वृद्धायाः कामयते नाङ्गानीति सोऽयमर्धजरतीयन्यायः । स चात्र न युक्तः ।
न ह्यभेदमङ्गीकृत्याभोक्तृत्वं त्यक्तुं युक्तम् , श्रुत्यैवाभेद सिद्ध्यर्थं भोक्तृत्ववारणादित्याह
शास्त्रं चेति ।
नन्वेकत्वं मया श्रुत्या न गृहीतम् , योनोपजीव्यबाधः स्यात् । किन्तु त्वदुक्त्या गृहीतमित्याशङ्क्य बिम्बप्रतिबिम्बयोः कल्पितभेदेन भोक्तृत्वाभोक्तृत्वव्यवस्थोपपत्तेरप्रयोजको हेतुरित्याह
अथागृहीतमित्यादिना ।
कल्पितासङ्गित्वमधिष्ठानस्य वैशेष्यमित्यस्मिन्नर्थेऽपि सूत्रं पातयति
तदाहेति ।
ब्रह्मणो हार्दत्वे बाधकाभावच्छाण्डिल्यविद्यावाक्यं ब्रह्मण्युपास्ये समन्वितमिति सिद्वम् ॥ ८ ॥