ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अत्ता चराचरग्रहणात् ॥ ९ ॥
कठवल्लीषु पठ्यते ‘यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः’ (क. उ. १ । २ । २५) इति । अत्र कश्चिदोदनोपसेचनसूचितोऽत्ता प्रतीयते । तत्र किमग्निरत्ता स्यात् , उत जीवः, अथवा परमात्मा, इति संशयः । विशेषानवधारणात् । त्रयाणां चाग्निजीवपरमात्मनामस्मिन्ग्रन्थे प्रश्नोपन्यासोपलब्धेः । किं तावत्प्राप्तम् ? अग्निरत्तेति । कुतः ? ‘अग्निरन्नादः’ (बृ. उ. १ । ४ । ६) इति श्रुतिप्रसिद्धिभ्याम् । जीवो वा अत्ता स्यात् ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ (मु. उ. ३ । १ । १) इति दर्शनात् । न परमात्मा, ‘अनश्नन्नन्योऽभिचाकशीति’ इति दर्शनादित्येवं प्राप्ते ब्रूमः —

अत्ताचराचरग्रहणात् ।

'यस्य ब्रह्मक्षत्रादिजगदोदनः, मृत्युः सर्वप्राणिमारकोऽपि यस्योपसेचनमोदनसंस्कारकघृतप्रायः', सोऽत्ता यत्र शुद्धे चिन्मात्रेऽभेदकल्पनया वर्तते तच्छुद्धं ब्रह्म इत्था इत्थमीश्वरस्याप्यधिष्ठानभूतं को वेद । चित्तशुद्ध्याद्युपायं विना कोऽपि न जानातीत्यर्थः ।'

संशयबीजमाह

विशेषेति ।

'स त्वमग्निं प्रब्रूहि' इत्यग्नेः, 'येयं प्रेते विचिकित्सा' इति जीवस्य, 'अन्यत्र धर्मात्'इति ब्रह्मणः प्रश्नः । 'लोकादिमग्निं तमुवाच' इत्यग्नेः, 'हन्त त इदं प्रवक्ष्यामि' इतीतरयोः प्रतिवचनमुपलभ्यत इत्यर्थः ।

पूर्वत्र ब्रह्मणो भोक्तृत्वं नास्तीत्युक्तम् , तदुपजीव्य पूर्वपक्षयति

किं तावदिति ।

अग्निप्रकरणमतीतमित्यरुचेराह

जीवो वेति ।

पूर्वपक्षे जीवोपास्तिः, सिद्वान्ते निर्विशेषब्रह्मज्ञानमिति फलभेदः ।