ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अत्ता चराचरग्रहणात् ॥ ९ ॥
अत्तात्र परमात्मा भवितुमर्हतिकुतः ? चराचरग्रहणात्चराचरं हि स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयतेतादृशस्य चाद्यस्य परमात्मनोऽन्यः कार्त्स्न्येनात्ता सम्भवतिपरमात्मा तु विकारजातं संहरन्सर्वमत्तीत्युपपद्यतेनन्विह चराचरग्रहणं नोपलभ्यते, कथं सिद्धवच्चराचरग्रहणं हेतुत्वेनोपादीयते ? नैष दोषः, मृत्यूपसेचनत्वेनेहाद्यत्वेन सर्वस्य प्राणिनिकायस्य प्रतीयमानत्वात् , ब्रह्मक्षत्रयोश्च प्राधान्यात्प्रदर्शनार्थत्वोपपत्तेःयत्तु परमात्मनोऽपि नात्तृत्वं सम्भवतिअनश्नन्नन्योऽभिचाकशीतिइति दर्शनादिति, अत्रोच्यतेकर्मफलभोगस्य प्रतिषेधकमेतद्दर्शनम् , तस्य सन्निहितत्वात् विकारसंहारस्य प्रतिषेधकम् , सर्ववेदान्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मणः प्रसिद्धत्वात्तस्मात्परमात्मैवेहात्ता भवितुमर्हति ॥ ९ ॥

ओदनशब्दो भोग्यवाचीति पूर्वपक्षः । सिद्वान्तस्तु ब्रह्मक्षत्रशब्दैरूपस्थापितकार्यमात्रे गौण ओदनशब्दः । गुणश्चात्र मृत्यूपसेचनपदेन संनिधापितं प्रसिद्वौदनगतं विनाश्यत्वं गृह्यते, गौणशब्दस्य संनिहितगुणग्राहित्वात् । तथाच सर्वस्य विनाश्यत्वेन भानाल्लिङ्गादीश्वरोऽत्तेत्या ह

नैष दोष इति ।

तस्य संनिहितत्वादिति ।

'पिप्पलं स्वाद्वत्ति' इति भोगस्य पूर्वोक्तत्वादित्यर्थः ॥ ९ ॥ ॥ १० ॥