ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
कठवल्लीष्वेव पठ्यते — ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः’ (क. उ. १ । ३ । १) इति । तत्र संशयः — किमिह बुद्धिजीवौ निर्दिष्टौ, उत जीवपरमात्मानाविति । यदि बुद्धिजीवौ, ततो बुद्धिप्रधानात्कार्यकरणसङ्घाताद्विलक्षणो जीवः प्रतिपादितो भवति । तदपीह प्रतिपादयितव्यम् , ‘येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति पृष्टत्वात् । अथ जीवपरमात्मानौ, ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवति । तदपीह प्रतिपादयितव्यम् — ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति पृष्टत्वात् । अत्राहाक्षेप्ता — उभावप्येतौ पक्षौ न सम्भवतः । कस्मात् ? ऋतपानं कर्मफलोपभोगः, ‘सुकृतस्य लोके’ इति लिङ्गात् । तच्च चेतनस्य क्षेत्रज्ञस्य सम्भवति, नाचेतनाया बुद्धेः । ‘पिबन्तौ’ इति च द्विवचनेन द्वयोः पानं दर्शयति श्रुतिः । अतो बुद्धिक्षेत्रज्ञपक्षस्तावन्न सम्भवति । अत एव क्षेत्रज्ञपरमात्मपक्षोऽपि न सम्भवति । चेतनेऽपि परमात्मनि ऋतपानासम्भवात् , ‘अनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इति मन्त्रवर्णादिति । अत्रोच्यते — नैष दोषः; छत्रिणो गच्छन्तीत्येकेनापि च्छत्रिणा बहूनामच्छत्रिणां छत्रित्वोपचारदर्शनात् । एवमेकेनापि पिबता द्वौ पिबन्तावुच्येयाताम् । यद्वा जीवस्तावत्पिबति । ईश्वरस्तु पाययति । पाययन्नपि पिबतीत्युच्यते, पाचयितर्यपि पक्तृत्वप्रसिद्धिदर्शनात् । बुद्धिक्षेत्रज्ञपरिग्रहोऽपि सम्भवति; करणे कर्तृत्वोपचारात् । ‘एधांसि पचन्ति’ इति प्रयोगदर्शनात् । न चाध्यात्माधिकारेऽन्यौ कौचिद्द्वावृतं पिबन्तौ सम्भवतः । तस्माद्बुद्धिजीवौ स्यातां जीवपरमात्मानौ वेति संशयः ॥

अत्तृवाक्यानन्तरवाक्यस्यापि ज्ञेयात्मनि समन्वयमाह

गुहामिति ।

ऋतमवश्यम्भावि कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य कर्मणो लोके कार्ये देहे परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं परमं श्रेष्ठं तस्मिन्या गुहा नभोरूपा बुद्विरूपा वा तां प्रविश्य स्थितौ छायातपवत् मिथो विरुद्वौ तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्नाचिकेतोऽग्निश्चितो यैस्ते त्रिणाचिकेताः तेऽपि वदन्तीत्यर्थः । नाचिकेतवाक्यानामध्ययनम् , तदर्थज्ञानम् , तदनुष्ठानं चेति त्रित्वं बोध्यम् ।

बुद्ध्यवच्छिन्नजीवस्य परमात्मनश्च प्रकृतत्वात्संशयमाह

तत्रेति ।

पूर्वोत्तरपक्षयोः फलं स्वयमेवाह

यदीत्यादिना ।

तदपि जीवस्य बुद्विवैलक्षण्यमपीत्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोके भोक्तास्तीत्येके, नास्तीत्यन्ये । अतस्त्वयोपदिष्टोऽहमेतदात्मतत्त्वं जानीयामित्यर्थः । तदपि परमात्मस्वरूपमपीत्यर्थः ।

उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति

अत्राहेति ।

छत्रिपदेन गन्तार इव पिबत्पदेनाजहल्लक्षणया प्रविष्टावुच्येते इत्याह

अत्रोच्यत इति ।

पानकर्तृवाचिपदेन पानानुकूलौ वा लक्ष्यावित्याह

यद्वेति ।

नियतपूर्वभाविकृतिमत्त्वरूपमनुकूलत्वं कर्तृकारयित्रोः साधारणम् । यः कारयति स करोत्येवेति न्यायादिति भावः । अत्र प्रकृतिर्मुख्यार्था शतृप्रत्यये लक्षणा । मिश्रास्तु कृतिः, प्रत्ययार्थो मुख्यः । प्रकृत्या त्वजहल्लक्षणया पायनं लक्ष्यमित्याहुः ।

पूर्वपक्षे 'पिबन्तौ' इति कर्तृवाचिशतृप्रत्ययेन बुद्धिजीवसाधारणं कारकत्वं लक्ष्यमित्याह

बुद्वीति ।

एधांसि काष्ठानि पचन्तीत्याख्यातेन कारकत्वं लक्ष्यम् , प्रकृतिस्तु मुख्यैवेति भावः ।

मुख्यपातारौ प्रसिद्वपक्षिणौ ग्राह्यावित्यत आह

न चेति ।