अत्तृवाक्यानन्तरवाक्यस्यापि ज्ञेयात्मनि समन्वयमाह
गुहामिति ।
ऋतमवश्यम्भावि कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य कर्मणो लोके कार्ये देहे परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं परमं श्रेष्ठं तस्मिन्या गुहा नभोरूपा बुद्विरूपा वा तां प्रविश्य स्थितौ छायातपवत् मिथो विरुद्वौ तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्नाचिकेतोऽग्निश्चितो यैस्ते त्रिणाचिकेताः तेऽपि वदन्तीत्यर्थः । नाचिकेतवाक्यानामध्ययनम् , तदर्थज्ञानम् , तदनुष्ठानं चेति त्रित्वं बोध्यम् ।
बुद्ध्यवच्छिन्नजीवस्य परमात्मनश्च प्रकृतत्वात्संशयमाह
तत्रेति ।
पूर्वोत्तरपक्षयोः फलं स्वयमेवाह
यदीत्यादिना ।
तदपि जीवस्य बुद्विवैलक्षण्यमपीत्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोके भोक्तास्तीत्येके, नास्तीत्यन्ये । अतस्त्वयोपदिष्टोऽहमेतदात्मतत्त्वं जानीयामित्यर्थः । तदपि परमात्मस्वरूपमपीत्यर्थः ।
उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति
अत्राहेति ।
छत्रिपदेन गन्तार इव पिबत्पदेनाजहल्लक्षणया प्रविष्टावुच्येते इत्याह
अत्रोच्यत इति ।
पानकर्तृवाचिपदेन पानानुकूलौ वा लक्ष्यावित्याह
यद्वेति ।
नियतपूर्वभाविकृतिमत्त्वरूपमनुकूलत्वं कर्तृकारयित्रोः साधारणम् । यः कारयति स करोत्येवेति न्यायादिति भावः । अत्र प्रकृतिर्मुख्यार्था शतृप्रत्यये लक्षणा । मिश्रास्तु कृतिः, प्रत्ययार्थो मुख्यः । प्रकृत्या त्वजहल्लक्षणया पायनं लक्ष्यमित्याहुः ।
पूर्वपक्षे 'पिबन्तौ' इति कर्तृवाचिशतृप्रत्ययेन बुद्धिजीवसाधारणं कारकत्वं लक्ष्यमित्याह
बुद्वीति ।
एधांसि काष्ठानि पचन्तीत्याख्यातेन कारकत्वं लक्ष्यम् , प्रकृतिस्तु मुख्यैवेति भावः ।
मुख्यपातारौ प्रसिद्वपक्षिणौ ग्राह्यावित्यत आह
न चेति ।