ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
विज्ञानात्मपरमात्मानाविहोच्येयाताम् । कस्मात् ? आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौ । संख्याश्रवणे च समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते । ‘अस्य गोर्द्वितीयोऽन्वेष्टव्यः’ इत्युक्ते, गौरेव द्वितीयोऽन्विष्यते, नाश्वः पुरुषो वा । तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्चेतनः परमात्मैव प्रतीयते । ननूक्तं गुहाहितत्वदर्शनान्न परमात्मा प्रत्येतव्य इति; गुहाहितत्वदर्शनादेव परमात्मा प्रत्येतव्य इति वदामः । गुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एव दृश्यते — ‘गुहाहितं गह्वरेष्ठं पुराणम्’ (क. उ. १ । २ । १२) ‘यो वेद निहितं गुहायां परमे व्योमन्’ (तै. उ. २ । १ । १) ‘आत्मानमन्विच्छ गुहां प्रविष्टम्’ इत्याद्यासु । सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो न विरुध्यत इत्येतदप्युक्तमेव । सुकृतलोकवर्तित्वं तु च्छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम् । ‘छायातपौ’ इत्यप्यविरुद्धम्; छायातपवत्परस्परविलक्षणत्वात्संसारित्वासंसारित्वयोः, अविद्याकृतत्वात्संसारित्वस्य पारमार्थिकत्वाच्चासंसारित्वस्य । तस्माद्विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गृह्येते ॥ ११ ॥

एकस्मिञ्जातिमति कॢप्ते सजातीयमेव द्वितीयं ग्राह्यम् , व्यक्तिमात्रग्रहे लाघवात् । न विजातीयम् , जातिव्यक्त्युभयकल्पनागौरवात् । न चास्तु कारकत्वेन सजातीया बुद्विरेव जीवस्य द्वितीयेति वाच्यम् , चेतनत्वस्य जीवस्वभावस्य कारकत्वादन्तरङ्गत्वात् । तथाच लोके द्वितीयस्यान्तरङ्गजातिमत्त्वदर्शनाज्जीवस्य द्वितीयश्चेतन एवेति सूत्रार्थमाह

सङ्ख्याश्रवणे चेति ।

गुहायां बुद्वौ स्थितम् , गह्वरेऽनेकानर्थसङ्कुले देहे स्थितं पुराणमनादिपुरुषं विदित्वा हर्षशोकौ जहाति । परमे श्रेष्ठे, व्योमन् हार्दाकाशे या गुहा बुद्धिः तस्यां निहितं ब्रह्म यो वेद सोऽश्नुते सर्वान्कामानित्यन्वयः । अन्विच्छ विचारयेत्यर्थः ॥ ११ ॥