'मनो ब्रह्मेत्युपासीत' इत्यत्र इतिपदस्य प्रत्ययपरत्वात् , इह च ब्रह्मेत्युवाचेत्यन्वयेन इतिपदस्योक्तिसम्बन्धिनोऽर्थपरत्वाद्वैषम्यमिति सिद्वान्तयति
परमेश्वर एवेति ।
बहुप्रमाणसंवादस्तात्पर्यानुग्राहक इति न्यायानुगृहीताभ्यामात्मब्रह्मश्रुतिभ्यां दृश्यलिङ्गं बाध्यमित्याह
संयद्वामेति ।
वामानि कर्मफलान्येतमक्षिपुरुषमभिलक्ष्य संयन्ति उत्पद्यन्ते । सर्वफलोदयहेतुरित्यर्थः ।
लोकानां फलदाताप्ययमेवेत्याह
वामनीरिति ।
नयति फलानि लोकान्प्रापयतीत्यर्थः ।
भामानि भानानि नयत्ययमित्याह
भामनीरिति ।
सर्वार्थप्रकाशक इत्यर्थः ॥ १३ ॥