ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्तर उपपत्तेः ॥ १३ ॥
परमेश्वर एवाक्षिण्यभ्यन्तरः पुरुष इहोपदिष्ट इति । कस्मात् ? उपपत्तेः । उपपद्यते हि परमेश्वरे गुणजातमिहोपदिश्यमानम् । आत्मत्वं तावन्मुख्यया वृत्त्या परमेश्वरे उपपद्यते, ‘स आत्मा तत्त्वमसि’ इति श्रुतेः । अमृतत्वाभयत्वे च तस्मिन्नसकृच्छ्रुतौ श्रूयेते । तथा परमेश्वरानुरूपमेतदक्षिस्थानम् । यथा हि परमेश्वरः सर्वदोषैरलिप्तः, अपहतपाप्मत्वादिश्रवणात्; तथाक्षिस्थानं सर्वलेपरहितमुपदिष्टम् ‘तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति, वर्त्मनी एव गच्छति’ इति श्रुतेः । संयद्वामत्वादिगुणोपदेशश्च तस्मिन्नवकल्पते । ‘एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामान्यभिसंयन्ति’, (छा. उ. ४ । १५ । २) ‘एष उ एव वामनीरेष हि सर्वाणि वामानि नयति ।’ (छा. उ. ४ । १५ । ३)‘एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति’ (छा. उ. ४ । १५ । ४) इति च । अत उपपत्तेरन्तरः परमेश्वरः ॥ १३ ॥

'मनो ब्रह्मेत्युपासीत' इत्यत्र इतिपदस्य प्रत्ययपरत्वात् , इह च ब्रह्मेत्युवाचेत्यन्वयेन इतिपदस्योक्तिसम्बन्धिनोऽर्थपरत्वाद्वैषम्यमिति सिद्वान्तयति

परमेश्वर एवेति ।

बहुप्रमाणसंवादस्तात्पर्यानुग्राहक इति न्यायानुगृहीताभ्यामात्मब्रह्मश्रुतिभ्यां दृश्यलिङ्गं बाध्यमित्याह

संयद्वामेति ।

वामानि कर्मफलान्येतमक्षिपुरुषमभिलक्ष्य संयन्ति उत्पद्यन्ते । सर्वफलोदयहेतुरित्यर्थः ।

लोकानां फलदाताप्ययमेवेत्याह

वामनीरिति ।

नयति फलानि लोकान्प्रापयतीत्यर्थः ।

भामानि भानानि नयत्ययमित्याह

भामनीरिति ।

सर्वार्थप्रकाशक इत्यर्थः ॥ १३ ॥