चक्षुरासीदतीति ।
उपगच्छतीत्यर्थः । अनवस्थितस्योपास्यत्वं सदा न सिद्ध्यतीति भावः । किञ्चाव्यवधानात्स्वाक्षिस्थ उपास्यः ।
नच तस्य स्वचक्षुषा दर्शनं सम्भवतीत्याह
य एष इति ।
अस्तु तर्हि परेण दृश्यमानस्योपास्तिरित्यत आह
नचेति ।
कल्पनागौरवादित्यर्थः ।
युक्तिसिद्धानवस्थितत्वे श्रुतिमाह
अस्येति ।
छायाकरस्य बिम्बस्य नाशमदर्शनमनुसृत्यैष छायात्मा नश्यतीत्यर्थः ।
जीवं निरस्यति
तथेति ।
जात्यन्धस्याप्यहमित्यविशेषण जीवस्याभिव्यक्तेश्चक्षुरेव स्थानमित्ययुक्तमित्यर्थः ।
दृष्ट इति ।
श्रुताविति शेषः ।
ननु 'चक्षोः सूर्यो अजायत' 'सूर्योऽस्तमेति' इति वाक्यममरा देवा इति प्रसिद्धिबाधितमित्याशङ्क्याह
अमरत्वमपीति ।
भीषा भयेनास्मादीश्वराद्वायुश्चलति । अग्निश्चेन्द्रश्च स्वस्वकार्यं कुरुतः । उक्तापेक्षया पञ्चमो मृत्युः समाप्तायुषां निकटे धावतीत्यर्थः ।
ईश्वरपक्षे दृश्यत इत्युक्तम् , तत्राह
अस्मिन्निति ।
दर्शनमनुभवः । तस्यशास्त्रे श्रुतस्य शास्त्रमेव करणं कल्प्यम् , संनिधानात् । तथाच शास्त्रकरणको विद्वदनुभव उपासनास्तुत्यर्थ उच्यत इत्यर्थः । तस्मादुपकोसलविद्यावाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ १७ ॥