ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अनवस्थितेरसम्भवाच्च नेतरः ॥ १७ ॥
यत्पुनरुक्तं छायात्मा, विज्ञानात्मा, देवतात्मा वा स्यादक्षिस्थान इति, अत्रोच्यते — न च्छायात्मादिरितर इह ग्रहणमर्हति । कस्मात् ? अनवस्थितेः । न तावच्छायात्मनश्चक्षुषि नित्यमवस्थानं सम्भवति । यदैव हि कश्चित्पुरुषश्चक्षुरासीदति, तदा चक्षुषि पुरुषच्छाया दृश्यते । अपगते तस्मिन्न दृश्यते । ‘य एषोऽक्षिणि पुरुषः’ इति च श्रुतिः सन्निधानात्स्वचक्षुषि दृश्यमानं पुरुषमुपास्यत्वेनोपदिशति । न चोपासनाकाले च्छायाकरं कञ्चित्पुरुषं चक्षुःसमीपे सन्निधाप्योपास्त इति युक्तं कल्पयितुम् । ‘अस्यैव शरीरस्य नाशमन्वेष नश्यति’ (छा. उ. ८ । ९ । १) इति श्रुतिश्छायात्मनोऽप्यनवस्थितत्वं दर्शयति । असम्भवाच्च तस्मिन्नमृतत्वादीनां गुणानां न च्छायात्मनि प्रतीतिः । तथा विज्ञानात्मनोऽपि साधारणे कृत्स्नशरीरेन्द्रियसम्बन्धे सति न चक्षुष्येवावस्थितत्वं शक्यं वक्तुम् । ब्रह्मणस्तु सर्वव्यापिनोऽपि दृष्ट उपलब्ध्यर्थो हृदयादिदेशविशेषसम्बन्धः । समानश्च विज्ञानात्मन्यप्यमृतत्वादीनां गुणानामसम्भवः । यद्यपि विज्ञानात्मा परमात्मनोऽनन्य एव, तथाप्यविद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यारोपितं भयं चेत्यमृतत्वाभयत्वे नोपपद्येते । संयद्वामत्वादयश्चैतस्मिन्ननैश्वर्यादनुपपन्ना एव । देवतात्मनस्तु ‘रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः’ इति श्रुतेः यद्यपि चक्षुष्यवस्थानं स्यात् , तथाप्यात्मत्वं तावन्न सम्भवति, पराग्रूपत्वात् । अमृतत्वादयोऽपि न सम्भवन्ति, उत्पत्तिप्रलयश्रवणात् । अमरत्वमपि देवानां चिरकालावस्थानापेक्षम् । ऐश्वर्यमपि परमेश्वरायत्तम् , न स्वाभाविकम्; ‘भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चमः’ (तै. उ. २ । ८ । १) इति मन्त्रवर्णात् । तस्मात्परमेश्वर एवायमक्षिस्थानः प्रत्येतव्यः । अस्मिंश्च पक्षे ‘दृश्यते’ इति प्रसिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्याख्येयम् ॥ १७ ॥

चक्षुरासीदतीति ।

उपगच्छतीत्यर्थः । अनवस्थितस्योपास्यत्वं सदा न सिद्ध्यतीति भावः । किञ्चाव्यवधानात्स्वाक्षिस्थ उपास्यः ।

नच तस्य स्वचक्षुषा दर्शनं सम्भवतीत्याह

य एष इति ।

अस्तु तर्हि परेण दृश्यमानस्योपास्तिरित्यत आह

नचेति ।

कल्पनागौरवादित्यर्थः ।

युक्तिसिद्धानवस्थितत्वे श्रुतिमाह

अस्येति ।

छायाकरस्य बिम्बस्य नाशमदर्शनमनुसृत्यैष छायात्मा नश्यतीत्यर्थः ।

जीवं निरस्यति

तथेति ।

जात्यन्धस्याप्यहमित्यविशेषण जीवस्याभिव्यक्तेश्चक्षुरेव स्थानमित्ययुक्तमित्यर्थः ।

दृष्ट इति ।

श्रुताविति शेषः ।

ननु 'चक्षोः सूर्यो अजायत' 'सूर्योऽस्तमेति' इति वाक्यममरा देवा इति प्रसिद्धिबाधितमित्याशङ्क्याह

अमरत्वमपीति ।

भीषा भयेनास्मादीश्वराद्वायुश्चलति । अग्निश्चेन्द्रश्च स्वस्वकार्यं कुरुतः । उक्तापेक्षया पञ्चमो मृत्युः समाप्तायुषां निकटे धावतीत्यर्थः ।

ईश्वरपक्षे दृश्यत इत्युक्तम् , तत्राह

अस्मिन्निति ।

दर्शनमनुभवः । तस्यशास्त्रे श्रुतस्य शास्त्रमेव करणं कल्प्यम् , संनिधानात् । तथाच शास्त्रकरणको विद्वदनुभव उपासनास्तुत्यर्थ उच्यत इत्यर्थः । तस्मादुपकोसलविद्यावाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ १७ ॥