ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥
स्यादेतत् — अदृष्टत्वादयो धर्माः साङ्ख्यस्मृतिकल्पितस्य प्रधानस्याप्युपपद्यन्ते, रूपादिहीनतया तस्य तैरभ्युपगमात् । ‘अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः’ (मनु. १ । ५) इति हि स्मरन्ति । तस्यापि नियन्तृत्वं सर्वविकारकारणत्वादुपपद्यते । तस्मात्प्रधानमन्तर्यामिशब्दं स्यात् । ‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इत्यत्र निराकृतमपि सत् प्रधानमिहादृष्टत्वादिव्यपदेशसम्भवेन पुनराशङ्क्यते । अत उत्तरमुच्यते — न च स्मार्तं प्रधानमन्तर्यामिशब्दं भवितुमर्हति । कस्मात् ? अतद्धर्माभिलापात् । यद्यप्यदृष्टत्वादिव्यपदेशः प्रधानस्य सम्भवति, तथापि न द्रष्टृत्वादिव्यपदेशः सम्भवति, प्रधानस्याचेतनत्वेन तैरभ्युपगमात् । ‘अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता’ (बृ. उ. ३ । ७ । २३) इति हि वाक्यशेष इह भवति । आत्मत्वमपि न प्रधानस्योपपद्यते ॥ १९ ॥

प्रधानं महदादिक्रमेण कथं प्रवर्तत इति तर्कस्याविषय इत्याह

अप्रतर्क्यमिति ।

रूपादिहीनत्वादविज्ञेयम् , सर्वतो दिक्षु प्रसुप्तमिव तिष्ठति जडत्वादित्यर्थः । अतत् अप्रधानं चेतनम् , तस्य धर्माणामभिधानादिति हेत्वर्थः ॥ १९ ॥