प्रधानं महदादिक्रमेण कथं प्रवर्तत इति तर्कस्याविषय इत्याह
अप्रतर्क्यमिति ।
रूपादिहीनत्वादविज्ञेयम् , सर्वतो दिक्षु प्रसुप्तमिव तिष्ठति जडत्वादित्यर्थः । अतत् अप्रधानं चेतनम् , तस्य धर्माणामभिधानादिति हेत्वर्थः ॥ १९ ॥