दृष्टेर्द्रष्टारमात्मानं तया दृश्यया दृष्ट्या न विषयीकुर्या इत्यादिश्रुतेश्चादृष्टत्वादिधर्माः शारीरस्येत्याह
नेति ।
अपिशब्दसूचितं हेतुमुक्त्वा कण्ठोक्तं हेतुमाह
अपि चोभयेऽपीति ।
भेदेनेति सूत्रात्तात्त्विकभेदभ्रान्तिं निरसितुं शङ्कते
कथमिति ।
नन्वत्रैको भोक्ता जीवः, ईश्वरस्त्वभोक्तेति न विरोध इति शङ्कते
का पुनरिति ।
तयोर्भेदः श्रुतिविरुद्ध इति पूर्ववाद्याह
नान्य इति ।
स एव श्रुत्यर्थमाह
अत्रेति ।
श्रुतेरर्थान्तरमाशङ्क्य निषेधति
नियन्त्रन्तरेत्यादिना ।
न केवलमप्रसक्तप्रतिषेधः, किन्त्वविशेषेण द्रष्ट्रन्तरनिषेधश्रुतेरन्तर्याम्यन्तरनिषेधार्थत्वे बाधश्चेत्याह
अविशेषेति ।
तस्मात्सूत्रे, 'य आत्मानि तिष्ठन्' इति श्रुतौ च द्रष्टृभेदोक्तिरयुक्ता, 'नान्यः' इति वाक्यशेषे भेदनिरासादिति प्राप्ते, भेद उपाधिकल्पितः श्रुतिसूत्राभ्यामनूद्यत इति समाधत्ते
अत्रोच्यत इति ।
भेदः सत्यः किं न स्यादत आह
एको हीति ।
गौरवेण द्वयोरहन्धीगोचरत्वासम्भावदेक एव तद्गोचरः । तदगोचरस्य घटवदनात्मत्वान्नात्मभेदः सत्य इत्यर्थः ।
ततश्चेति ।
कल्पितभेदाङ्गीकाराद्भेदापेक्षं सर्वं युज्यत इत्यर्थः । तस्मादन्तर्यामिब्राह्मणं ज्ञेये ब्रह्मणि समन्वितमिति सिद्धम् ॥ २० ॥