अदृश्यत्वादिगुणको धर्मोक्तेः । मुण्डकवाक्यमुदाहरति
अथेति ।
कर्म विद्यारूपापरविद्योक्त्यनन्तरं यया निर्गुणं ज्ञायते परा सोच्यते । तामैव विषयोक्त्या निर्दिशति
यत्तदिति ।
अद्रेश्यमदृश्यं ज्ञानेन्द्रियैः, अग्राह्यं कर्मेन्द्रियैः, गोत्रं वंशः, वर्णो ब्राह्मणत्वादिजातिः, चक्षुःश्रोत्रशून्यमचक्षुःश्रोत्रम् , पाणिपादशून्यमपाणिपादम् , ज्ञानकर्मेन्द्रियविकलमित्यर्थः । विभुं प्रभुम् , सुसूक्ष्मं दुर्ज्ञेयत्वात् । नित्याव्ययपदाभ्यां नाशापक्षययोर्निरासः । भूतानां योनिं प्रकृतिं यत्पश्यन्ति धीराः पण्डितास्तदक्षरं तद्विद्या परेत्यन्वयः । अद्रेश्यत्वादिगुणानां ब्रह्मप्रधानसाधारणत्वात्संशयः ।
पूर्ववद्रष्टृत्वादीनां चेतनधर्माणामत्राश्रुतेरस्तु प्रधानमिति प्रत्युदाहरणेन पूर्वपक्षयति
तत्रेति ।
पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्वान्ते निर्गुणधीरिति फलम् । ऊर्णनाभिर्लूताकीटः तन्तून्स्वदेहात्सृजति, उपसंहरति चेत्यर्थः । सतो जीवतः ।
ननु पूर्वं निरस्तं प्रधानं कथमुत्थाप्यते, तत्राह
अपिचेति ।
अत्र प्रधाने विरुध्यमानोऽसम्भावितो वाक्यशेषः श्रुत इति शङ्कते
ननु य इति ।
पञ्चम्यन्ताक्षरश्रुत्या भूतप्रकृतेः प्रत्यभिज्ञानात्प्रथमान्तपरशब्दोक्तस्य जगन्निमित्तेश्वरस्य सर्वज्ञत्वादिकमित्याह
अत्रोच्यत इति ।
'सन्दिग्धे तु वाक्यशेषात्' इति न्यायेन सिद्धान्तयति
एवं प्राप्त इति ।