चेतनाचेतनत्वेन सन्दिग्धे भूतयोनौ 'यः सर्वज्ञः' इति वाक्यशेषादीश्वरत्वनिर्णय इत्ययुक्तम् , वाक्यशेषे भूतयोनेः प्रत्यभिज्ञापकाभावादिति शङ्कते
नन्विति ।
'जनिकर्तुः प्रकृतिः' इति सूत्रेण प्रकृतेरपादानसंज्ञायां पञ्चमीस्मरणादक्षरात्सम्भवतीति प्रकृतित्वेनोक्ताक्षरस्य भूतयोनेर्वाक्यशेषे तस्मादिति प्रकृतित्वलिङ्गेन प्रत्यभिज्ञानमस्तीति समाधत्ते
अत्रोच्यत इति ।
एतत्कार्यं ब्रह्म सूक्ष्मात्मकं नाम रूपम् , स्थूलं ततोऽन्नं व्रीह्यादीत्यर्थः ।
यदुक्तं पञ्चम्यन्ताक्षरश्रुत्या भूतयोनेः प्रत्यभिज्ञानादचेतनत्वमिति, तत्राह
अक्षरात्परत इति ।
नायमक्षरशब्दो भूतयोनिं परामृशति, परविद्याधिगम्यत्वेनोक्तस्याक्षरस्य भूतयोनेः 'अक्षरं पुरुषं वेदा' इत्यक्षरश्रुत्या वेद्यत्वलिङ्गवत्या पूर्वमेव ब्रह्मत्वेन परामर्शादित्याह
येनेति ।
येन ज्ञानेनाक्षरं भूतयोनिं सर्वज्ञं पुरुषं वेद तां ब्रह्मविद्यां योग्याय शिष्याय प्रब्रूयादित्युपक्रम्य 'अप्राणो ह्यमनाः शुभ्रः' 'अक्षरात्परतः परः' इत्युच्यमानः परो भूतयोनिरिति गम्यत इत्यर्थः ।
तर्हि पञ्चम्यन्ताक्षरशब्दार्थः क इत्याशङ्क्याज्ञानमिति वक्ष्यत इत्याह
कथमिति ।
परविद्येति समाख्ययापि तद्विषयस्य ब्रह्मत्वमित्याह
अपिचेति ।
ननु प्रधानविद्यापि कारणविषयत्वात्परेत्यत आह
परापरविभागो हीति ।
अनित्यफलत्वेनापरविद्यां निन्दित्वा मुक्त्यर्थिने ब्रह्मविद्यां प्रोवाचेति वाक्यशेषोक्तेरित्यर्थः ।
अस्तु प्रधानविद्यापि मुक्तिफलत्वेन परेत्यत आह
नचेति ।
ननु 'यः सर्वज्ञः' इत्यग्रे परविद्याविषय उच्यते, अद्रेश्यवाक्येन तु प्रधानविद्योच्यत इत्यत आह
तिस्रश्चेति ।
इतश्च भूतयोनेर्ब्रह्मत्वमित्याह
कस्मिन्निति ।
अचेतनमात्रस्यैकायतनमुपादानं तज्ज्ञानात्कार्यज्ञानेऽपि तदकार्याणामात्मनां ज्ञानं न भवति । एवं जीवे ज्ञाते तदकार्यस्य भोग्यस्य ज्ञानं न भवतीत्यर्थः ।
ब्रह्मविद्याशब्दाच्च भूतयोनिर्ब्रह्मेत्याह
अपिचेति ।
स ब्रह्मविद्यां सर्वविद्यानां प्रतिष्ठां समाप्तिभूमिं ब्रह्मविद्यामुवाच । ब्रह्मणि सर्वविद्यानां विद्याफलानां चान्तर्भावाद्ब्रह्मविद्या सर्वविद्याप्रतिष्ठा ।
नन्वपरविद्या परप्रकरणे किमर्थमुक्तेत्यत आह
अपरेति ।
प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, अदृढानित्यफलसम्पादनाशक्ताः, षोडशर्त्विजः पत्नीयजमानश्चेत्यष्टादश । यज्ञेन नामनिमित्तेन निरूप्यन्त इति यज्ञरूपाः । तथाहि ऋतुषु याचयन्ति यज्ञं कारयन्तीत्यृत्विजः, यजत इति यजमानः, 'पत्युर्नो यज्ञसंयोगे' इति सूत्रेण पतिशब्दस्य नकारोऽन्तादेशो यज्ञसम्बन्धे विहित इति पत्नी, एवमृत्विगादिनामप्रवृत्तिनिमित्तं यज्ञ इति यज्ञरूपाः । येष्ववरमनित्यफलकं कर्म श्रुत्युक्तम् , एतदेव कर्म श्रेयो नान्यदात्मज्ञानमिति ये मूढास्तुष्यन्ति ते पुनः पुनर्जन्ममरणमाप्नुवन्तीत्यर्थः । तद्विज्ञानार्थं ब्रह्मविज्ञानार्थं गुरुमभिगच्छेदेवेति नियमः ।
ब्रह्मनिष्ठस्याप्यनधीतवेदस्य गुरुत्वं वारयति
श्रोत्रियमिति ।
कार्यमुपादानाभिन्नमित्यंशे दृष्टान्तः ।
सर्वसाम्ये तवाप्यनिष्टापत्तेरित्याह
अपिच स्थूला इति ॥ २१ ॥