ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
योऽयमदृश्यत्वादिगुणको भूतयोनिः, परमेश्वर एव स्यात् , नान्य इतिकथमेतदवगम्यते ? धर्मोक्तेःपरमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते — ‘यः सर्वज्ञः सर्ववित्इति हि प्रधानस्याचेतनस्य शारीरस्य वोपाधिपरिच्छिन्नदृष्टेः सर्वज्ञत्वं सर्ववित्त्वं वा सम्भवतिन्वक्षरशब्दनिर्दिष्टाद्भूतयोनेः परस्यैव तत्सर्वज्ञत्वं सर्ववित्त्वं , भूतयोनिविषयमित्युक्तम्; अत्रोच्यतेनैवं सम्भवति; यत्कारणम्अक्षरात्सम्भवतीह विश्वम्इति प्रकृतं भूतयोनिमिह जायमानप्रकृतित्वेन निर्दिश्य, अनन्तरमपि जायमानप्रकृतित्वेनैव सर्वज्ञं निर्दिशति — ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपःतस्मादेतद्ब्रह्म नाम रूपमन्नं जायतेइतितस्मान्निर्देशसाम्येन प्रत्यभिज्ञायमानत्वात्प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्वज्ञत्वं सर्ववित्त्वं धर्म उच्यत इति गम्यते । ‘अक्षरात्परतः परःइत्यत्रापि प्रकृताद्भूतयोनेरक्षरात्परः कश्चिदभिधीयतेकथमेतदवगम्यते ? येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्’ (मु. उ. १ । २ । १३) इति प्रकृतस्यैवाक्षरस्य भूतयोनेरदृश्यत्वादिगुणकस्य वक्तव्यत्वेन प्रतिज्ञातत्वात्कथं तर्हिअक्षरात्परतः परःइति व्यपदिश्यत इति ? उत्तरसूत्रे तद्वक्ष्यामःअपि चात्र द्वे विद्ये वेदितव्ये उक्ते — ‘परा चैवापरा इतितत्रापरामृग्वेदादिलक्षणां विद्यामुक्त्वा ब्रवीतिअथ परा यया तदक्षरमधिगम्यतेइत्यादितत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम्यदि पुनः परमेश्वरादन्यददृश्यत्वादिगुणकमक्षरं परिकल्प्येत, नेयं परा विद्या स्यात्परापरविभागो ह्ययं विद्ययोः अभ्युदयनिःश्रेयसफलतया परिकल्प्यते प्रधानविद्या निःश्रेयसफला केनचिदभ्युपगम्यतेतिस्रश्च विद्याः प्रतिज्ञायेरन्, त्वत्पक्षेऽक्षराद्भूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात्द्वे एव तु विद्ये वेदितव्ये इह निर्दिष्टेकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति चैकविज्ञानेन सर्वविज्ञानापेक्षणं सर्वात्मके ब्रह्मणि विवक्ष्यमाणेऽवकल्पते, नाचेतनमात्रैकायतने प्रधाने, भोग्यव्यतिरिक्ते वा भोक्तरिअपि ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह’ (मु. उ. १ । १ । १) इति ब्रह्मविद्यां प्राधान्येनोपक्रम्य परापरविभागेन परां विद्यामक्षराधिगमनीं दर्शयन् तस्या ब्रह्मविद्यात्वं दर्शयतिसा ब्रह्मविद्यासमाख्या तदधिगम्यस्य अक्षरस्याब्रह्मत्वे बाधिता स्यात्अपरा ऋग्वेदादिलक्षणा कर्मविद्या ब्रह्मविद्योपक्रमे उपन्यस्यते ब्रह्मविद्याप्रशंसायैप्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्मएतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति’ (मु. उ. १ । २ । ७) इत्येवमादिनिन्दावचनात्निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयतिपरीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेनतद्विज्ञानार्थं गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ. १ । २ । १२) इतियत्तूक्तम्अचेतनानां पृथिव्यादीनां दृष्टान्तत्वेनोपादानाद्दार्ष्टान्तिकेनाप्यचेतनेनैव भूतयोनिना भवितव्यमिति, तदयुक्तम्; हि दृष्टान्तदार्ष्टान्तिकयोरत्यन्तसाम्येन भवितव्यमिति नियमोऽस्तिअपि स्थूलाः पृथिव्यादयो दृष्टान्तत्वेनोपात्ता इति स्थूल एव दार्ष्टान्तिको भूतयोनिरभ्युपगम्यतेतस्माददृश्यत्वादिगुणको भूतयोनिः परमेश्वर एव ॥ २१ ॥

चेतनाचेतनत्वेन सन्दिग्धे भूतयोनौ 'यः सर्वज्ञः' इति वाक्यशेषादीश्वरत्वनिर्णय इत्ययुक्तम् , वाक्यशेषे भूतयोनेः प्रत्यभिज्ञापकाभावादिति शङ्कते

नन्विति ।

'जनिकर्तुः प्रकृतिः' इति सूत्रेण प्रकृतेरपादानसंज्ञायां पञ्चमीस्मरणादक्षरात्सम्भवतीति प्रकृतित्वेनोक्ताक्षरस्य भूतयोनेर्वाक्यशेषे तस्मादिति प्रकृतित्वलिङ्गेन प्रत्यभिज्ञानमस्तीति समाधत्ते

अत्रोच्यत इति ।

एतत्कार्यं ब्रह्म सूक्ष्मात्मकं नाम रूपम् , स्थूलं ततोऽन्नं व्रीह्यादीत्यर्थः ।

यदुक्तं पञ्चम्यन्ताक्षरश्रुत्या भूतयोनेः प्रत्यभिज्ञानादचेतनत्वमिति, तत्राह

अक्षरात्परत इति ।

नायमक्षरशब्दो भूतयोनिं परामृशति, परविद्याधिगम्यत्वेनोक्तस्याक्षरस्य भूतयोनेः 'अक्षरं पुरुषं वेदा' इत्यक्षरश्रुत्या वेद्यत्वलिङ्गवत्या पूर्वमेव ब्रह्मत्वेन परामर्शादित्याह

येनेति ।

येन ज्ञानेनाक्षरं भूतयोनिं सर्वज्ञं पुरुषं वेद तां ब्रह्मविद्यां योग्याय शिष्याय प्रब्रूयादित्युपक्रम्य 'अप्राणो ह्यमनाः शुभ्रः' 'अक्षरात्परतः परः' इत्युच्यमानः परो भूतयोनिरिति गम्यत इत्यर्थः ।

तर्हि पञ्चम्यन्ताक्षरशब्दार्थः क इत्याशङ्क्याज्ञानमिति वक्ष्यत इत्याह

कथमिति ।

परविद्येति समाख्ययापि तद्विषयस्य ब्रह्मत्वमित्याह

अपिचेति ।

ननु प्रधानविद्यापि कारणविषयत्वात्परेत्यत आह

परापरविभागो हीति ।

अनित्यफलत्वेनापरविद्यां निन्दित्वा मुक्त्यर्थिने ब्रह्मविद्यां प्रोवाचेति वाक्यशेषोक्तेरित्यर्थः ।

अस्तु प्रधानविद्यापि मुक्तिफलत्वेन परेत्यत आह

नचेति ।

ननु 'यः सर्वज्ञः' इत्यग्रे परविद्याविषय उच्यते, अद्रेश्यवाक्येन तु प्रधानविद्योच्यत इत्यत आह

तिस्रश्चेति ।

इतश्च भूतयोनेर्ब्रह्मत्वमित्याह

कस्मिन्निति ।

अचेतनमात्रस्यैकायतनमुपादानं तज्ज्ञानात्कार्यज्ञानेऽपि तदकार्याणामात्मनां ज्ञानं न भवति । एवं जीवे ज्ञाते तदकार्यस्य भोग्यस्य ज्ञानं न भवतीत्यर्थः ।

ब्रह्मविद्याशब्दाच्च भूतयोनिर्ब्रह्मेत्याह

अपिचेति ।

स ब्रह्मविद्यां सर्वविद्यानां प्रतिष्ठां समाप्तिभूमिं ब्रह्मविद्यामुवाच । ब्रह्मणि सर्वविद्यानां विद्याफलानां चान्तर्भावाद्ब्रह्मविद्या सर्वविद्याप्रतिष्ठा ।

नन्वपरविद्या परप्रकरणे किमर्थमुक्तेत्यत आह

अपरेति ।

प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, अदृढानित्यफलसम्पादनाशक्ताः, षोडशर्त्विजः पत्नीयजमानश्चेत्यष्टादश । यज्ञेन नामनिमित्तेन निरूप्यन्त इति यज्ञरूपाः । तथाहि ऋतुषु याचयन्ति यज्ञं कारयन्तीत्यृत्विजः, यजत इति यजमानः, 'पत्युर्नो यज्ञसंयोगे' इति सूत्रेण पतिशब्दस्य नकारोऽन्तादेशो यज्ञसम्बन्धे विहित इति पत्नी, एवमृत्विगादिनामप्रवृत्तिनिमित्तं यज्ञ इति यज्ञरूपाः । येष्ववरमनित्यफलकं कर्म श्रुत्युक्तम् , एतदेव कर्म श्रेयो नान्यदात्मज्ञानमिति ये मूढास्तुष्यन्ति ते पुनः पुनर्जन्ममरणमाप्नुवन्तीत्यर्थः । तद्विज्ञानार्थं ब्रह्मविज्ञानार्थं गुरुमभिगच्छेदेवेति नियमः ।

ब्रह्मनिष्ठस्याप्यनधीतवेदस्य गुरुत्वं वारयति

श्रोत्रियमिति ।

कार्यमुपादानाभिन्नमित्यंशे दृष्टान्तः ।

सर्वसाम्ये तवाप्यनिष्टापत्तेरित्याह

अपिच स्थूला इति ॥ २१ ॥