ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥
इदमुच्यते — वैश्वानरः परमात्मा भवितुमर्हति । कुतः ? साधारणशब्दविशेषात् । साधारणशब्दयोर्विशेषः साधारणशब्दविशेषः । यद्यप्येतावुभावप्यात्मवैश्वानरशब्दौ साधारणशब्दौ — वैश्वानरशब्दस्तु त्रयस्य साधारणः, आत्मशब्दश्च द्वयस्य, तथापि विशेषो दृश्यते, येन परमेश्वरपरत्वं तयोरभ्युपगम्यते — ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः’ इत्यादिः । अत्र हि परमेश्वर एव द्युमूर्धत्वादिविशिष्टोऽवस्थान्तरगतः प्रत्यगात्मत्वेनोपन्यस्त आध्यानायेति गम्यते, कारणत्वात् । कारणस्य हि सर्वाभिः कार्यगताभिरवस्थाभिरवस्थावत्त्वात् द्युलोकाद्यवयवत्वमुपपद्यते । ‘स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति’ इति च सर्वलोकाद्याश्रयं फलं श्रूयमाणं परमकारणपरिग्रहे सम्भवति, ‘एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इति च तद्विदः सर्वपाप्मप्रदाहश्रवणम् , ‘को न आत्मा किं ब्रह्म’ इति चात्मब्रह्मशब्दाभ्यामुपक्रमः; — इत्येवमेतानि लिङ्गानि परमेश्वरमेव गमयन्ति । तस्मात्परमेश्वर एव वैश्वानरः ॥ २४ ॥

सिद्वान्तयति

तत इदमिति ।

साधारणश्रुत्योरूपक्रमस्थयोर्विशेषात्प्रथमश्रुतमुख्यत्रैलोक्यशरीरलिङ्गात्सर्वात्मकेश्वरपरत्वं युक्तम् , न चरमश्रुतकल्पितहोमाधारत्वलिङ्गेन जाठरत्वमित्यर्थः ।

ननु निर्विशेषस्य कुतो विशेष इत्यत आह

अत्र हीति ।

अवस्थान्तरगतः त्रैलोक्यात्मना स्थित इत्यर्थः ।

जाठरस्यापि ध्यानार्थं विशेषकल्पनेति चेत् , न, असत्कल्पनापत्तेः । ईश्वरस्य तु उपादानत्वाद्विशेषः सन्नेव ध्यानार्थमुच्यतामित्याह

कारणत्वादिति ।

लिङ्गान्तराण्याह

स सर्वेष्वित्यादिना ।

यथाग्नौ निक्षिप्तमिषीकातूलं दह्यते एवं हास्य विदुष इत्यर्थः ॥ २४ ॥