ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अनुस्मृतेर्बादरिः ॥ ३० ॥
प्रादेशमात्रहृदयप्रतिष्ठेन वायं मनसानुस्मर्यते । तेन ‘प्रादेशमात्रः’ इत्युच्यते । यथा प्रस्थमिता यवाः प्रस्था इत्युच्यन्ते, तद्वत् । यद्यपि च यवेषु स्वगतमेव परिमाणं प्रस्थसम्बन्धाद्व्यज्यते, न चेह परमेश्वरगतं किञ्चित्परिमाणमस्ति, यद्धृदयसम्बन्धाद्व्यज्येत; तथापि प्रयुक्तायाः प्रादेशमात्रश्रुतेः सम्भवति यथाकथञ्चिदनुस्मरणमालम्बनमित्युच्यते । प्रादेशमात्रत्वेन वायमप्रादेशमात्रोऽप्यनुस्मरणीयः प्रादेशमात्रश्रुत्यर्थवत्तायै । एवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्रश्रुतिरिति बादरिराचार्यो मन्यते ॥ ३० ॥

मतान्तरमाह

अनुस्मृतेरिति ।

प्रादेशेन मनसा मितः प्रादेशमात्र इत्यर्थः ।

यथाकथञ्चिदिति ।

मनःस्थं प्रादेशमात्रत्वं स्मृतिद्वारा स्मर्यमाणे कल्पितं श्रुतेरालम्बनमित्यर्थः ।

सूत्रस्यार्थान्तरमाह

प्रादेशेति ॥ ३० ॥